________________
[ ५१ ]
॥ अथ बीयसुयक्खंधो ॥
॥ सुबाहू ॥ 'सम्बोउ० य' त्ति इदमेवं दृश्यं-' सञ्चोउयपुष्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासाईए ४' । ___ 'तंसि तारिसगंसि वासभवणंसी' ति तस्मिन् तादृशे-राजलोकोचिते वासगृहे इत्यर्थः ।
'जहा मेहस्स जम्मणं' ति ज्ञाताधर्मकथायां प्रथमाध्ययने यथा मेघकुमारस्य जन्मवक्तव्यतोक्ता एवमत्रापि सा वाच्येति, नवरमकालमेघदोहदवक्तव्यता नास्तीह । 'सुबाहुकुमार' इह यावत्करणादिदं दृश्यं-' बावत्तरीकलापंडिए नवंगसुत्तपडिबोहिए' नवाङ्गानि-श्रोत्र २ चक्षु ४ र्घाण ६ रसना ७ त्वग् ८ मनो ९ लक्षणानि सन्ति सुप्तानि प्रतिबोधितानि यौवनेन यस्य स तथा, 'अट्ठारसदेसीभासाविसारए' इत्यादि जाव अलं भोगसमत्ये जाए यावि हुत्था, तए णं तस्स सुबाहुस्स अम्मापियरो सुबाहुं कुमारं यावत्तरीकलापंडियं जाव अलं भोगसमत्थं साहसियं वियालचारिं जाणंति जाणित्ता पञ्च प्रासादावतंसकशतानि कारयन्ति, किं भूतानि ? इत्याह-' अन्भुग्गय' त्ति · अध्भुग्गयमूसियपहसिए ' इत्यादि, 'भवणं' ति एकं च भवन कारयंति, अथ प्रासाबभवनयोः कः प्रतिविशेषः ?, उच्यते, प्रासादः स्वगतायामापेक्षया द्विगुणोच्छ्यः भवन त्वायामापेक्षया पादोनसमुच्छ्यमेवेति, इह च प्रासादा बधूनिमित्तं भवनं च कुमाराय, ' एवं जहा महापलास' ति भवन