________________ [ 58 ] 'परामुखइ' ति गृह्णाति / 'समजोइभूयं' ति समः-तुल्यो ज्योतिषा- अग्निना भूतो जातो कः स तथा तम् / _ 'रोयमाणीओ' त्ति अश्रुविमोचनात् , इहान्यदपि पदद्वयमध्येयं, तद्यथा-' कंदमाणीओ' आक्रन्दशब्दं कुर्वत्यः विलबमापीओ' त्ति विलापान् कुर्वत्यः / / [पृ. 71 ] ' आसुरुत्ते' त्ति आशु-शीघ्रं रुप्त:-कोपेन विमोहितः, इहान्यदपि पदचतुष्कं दृश्यं, तद्यथा-'रुटे' त्ति उदितरोपः "कुविए' त्ति प्रवृद्धकोपोदयः ‘चंडक्किए' त्ति प्रकटितरौद्ररूपः, 'मिसिमिसिमाणे' त्ति कोपाग्निना दीप्यमान इव / / // देवदत्तायाः नवमाध्ययनस्य विवरणं // 9 // // अज्जू // [पृ. 72.] ' जहा तेलि ' त्ति ज्ञाताधर्मकथायां यथा तेयलिसुतनामा अमात्यः पोट्टिला-भिधानां कलादमूषिकारश्रेष्ठिसुतामात्मार्थ याचयित्वा आत्मनैव परिणीतवान् एवमयमपीति / अञ्जूसार्थवाहसुतायाः दशमाध्ययनस्य विवरणम् // 10 // तत्समाप्तौ च समाप्तं प्रथमश्रुतस्कन्धविवरणमिति //