________________
[ ५७ ]
मल्लालंकारेण सव्वतूरसहसंनिनाएणं' सर्वतूर्यशब्दानां मीलने यः संगतो नितरां नादो-महान् घोषस्नेनेत्यर्थः, अल्पेष्वपि ऋद्वयादिषु सर्वशब्दप्रवृत्तिर्दृष्टा अत आह-' महया इट्टीए' महया जुईए महया जुईए महया बलेणं महया समुदएणं महया वरतुरियजमगसमगपवाइणं' 'जमगसमग ' त्ति युगपत् , एतदेव विशेषेणाह- संखपणवपडहभेरिझल्लरिखग्मुहिहुडुक्कमुखमुइंगदुंदुहिनिग्धोसनाइयरवेणं ' तत्र शङ्खादीनां नितरां घोषो निर्घोषो-महाप्रयत्नोत्पादितः शब्दः नादितं-ध्वनिमात्रं एतद्वयलक्षणो यो रवः स तथा तेनेति ।।
'सेयापीएहिं ' ति रजतसुवर्णमयैरित्यर्थः ।
[ पृ. ६९] 'सिरीए देवीए मायाभत्ते यावि हुत्य ' त्ति श्रिया देव्या मातेति बहुमानबुद्ध्या भक्तो मातृभक्तश्चाप्यभूत् ,
'कल्लाकलिं' ति प्रातः प्रातः । 'गंधवट्टएणं' ति गन्धचूर्णेन।
'जिमियभुत्तुत्तरागयाए 'त्ति जेमितायां-कृतभोजनायां तथा भुक्त्वोत्तरमागतायां स्वस्थानमिति भावार्थः, उदारान्-मनोज्ञान् भोगान् भुञ्जानो विहरति ।
'पुव्यरत्तावरत्ते' त्ति पूर्वरात्रापररात्रकालसमये, रात्रेः पूर्वभागे पश्चाद्भागे वेत्यर्थः ।
[पृ. ७०.] ' मज्जाइय' त्ति पीतमद्या, 'विरहियसयणिजंसि '. त्ति विरहिते विजनस्थाने शयनीयं तत्र ।