________________
[ ५६ ] आबाधः-ईषत्पीडा प्रबाधः-प्रकृष्टा पीडैव — इति कट्ट ' त्ति एवमभिधाय ।
'अणेगक्खंभिय'त्ति अनेकस्तम्भशतसन्निविष्टामित्यर्थः, 'पासा.' इत्यनेन 'पासाईयं दरिसणिज्ज अभिरूवं पडिरूव ' मिति दृश्यम् ।
[पृ. ६७. ] ' जइ वि ( य ) सा सयं रजसुक्क ' त्ति यद्यपि सा स्वकीयराज्यशुल्का-स्वकीयराज्यलभ्येत्यर्थः ।
'जुत्तं व ' त्ति सङ्गतं 'पत्तं व ' त्ति पात्रं वा 'सलाहणिज्ज व' त्ति श्लाध्यमिदं ‘सरिसो व ' त्ति उचितसंयोगो वधूवरयोः । ___'आयंते ' ति आचान्तो जलग्रहणात् 'चोक्खे' त्ति चोक्षः सिक्थलेपाद्यपनयनात् विमुक्तं भवति । ‘परमसई भुए ' त्ति अत्यन्तं शूचीभूत इति ।
[पृ. ६८] 'हाय' यावत्करणादिदं दृश्यं–' कयबलिकम्म कयकोउयमंगलपायच्छित्तं सव्वालंकारे' त्ति । ___'सुबहुमित्त' इत्यत्र यावत्करणादिदं 'गियगसयासबंधिपरिजणेण ' त्ति दृश्यम् । _ 'सव्वडिए' इत्यत्र यावत्करणादिदं दृश्यं–' सबजुईए ' सर्वद्युत्या-आभरणादिसम्बन्धिन्या सर्वयुक्त्या वा उचितेषु वस्तुघटनालक्षणया सर्वबलेन-सर्वसैन्येन सर्वसमुदायेन-पौरादिमीलनेन सर्वादरेणसर्वाचितकृत्यकरणरूपेण 'सव्वविभूईए' सर्वसम्पदा 'सबविभूसाए' समस्तशोभया 'सव्वसंभमेणं' प्रमोदकृतौत्सुक्येन 'सन्चपुष्फगंध