________________
[ ४१ ] 'जएणं विजएणं वद्धावेइ ' त्ति जयेन विजयेन च रिपूणां वर्द्धस्वेत्येवमाशिषं प्रयुक्ते इत्यर्थः ॥
__ ननु तीर्थकरा यत्र विहरन्ति तत्र देशे पञ्चविंशतेोजनानामादेशान्तरेण द्वादशानां मध्ये तीर्थकरातिशयात् न वैरादयोऽना भवन्ति, यदाह-" पुजुप्पन्ना रोगा पसमंति इइवेरमारीओ । अइबुढी अणावुद्धी न होइ दुब्भिक्ख डमरं च ॥ १ ॥” इति ।
[ पूर्वोत्पन्ना रोगाः प्रशाम्यन्ति इतिवैरमार्यः । अतिवृष्टिरनावृष्टिर्न भवति दुर्भिक्षं डमरं च ॥ १ ॥ ]
तत्कथं श्रीमन्महावीरे भगवति पुरिमताले नगरे व्यवस्थित एवाभग्नसेनस्य पूर्ववर्णितो व्यतिकरः संपन्नः ? इति । अत्रोच्यते, सर्वमिदमनर्थमर्थजातं प्राणिनां स्वकृतकर्मणः सकाशादुपजायते, कर्म च द्वेधा -सोपक्रम, निरुपक्रमं च, तत्र यानि वैरादीनि सोपक्रमकर्मसंपाद्यानि तान्येव जिनातिशयादुपशाम्यन्ति सदोषत्वात् साध्यव्याधिवत् , यानि तु निरुपक्रमकर्मसंपाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकारणविषयाणि असाध्यव्याधिवत् , अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान् विहितवन्तः ॥
॥ इति विपाकश्रुते अभग्नसेनाख्यतृतीयाध्ययनविवरणम् ॥