SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ [ ४२ ] ॥ सगडे ॥ [पृ. ३७.] ' जइ णं भंते !' इत्यादि चतुर्थाध्ययनस्योत्क्षेपःप्रस्तावना वाच्या इति गम्यं, स चायं-'जइ णं भंते ! समणेणं भगवया जाव संपत्तेणं दुहविवागाणं तच्चस्स अझयणस्स अयमद्वे पन्नत्ते चउत्थस्स णं भंते ! के अट्टे पन्नत्ते !' त्ति, 'महया' इत्यनेन ' महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादि राजवर्णको दृश्यः, 'साम १ भेद २ दण्ड ३' इत्येतत्पदमेवं दृश्यं, 'सामभेददंडउवप्पयाणनीईसुपउत्तनयविहन्नू' सामः-प्रियवचनं १ भेदः-नायकसेवकयोश्चित्तभेदकरणं २ दण्डः-शरीरधनयोरपहारः ३ उपप्रदानं-अभिमतार्थदानम् ४ एतान्येव नीतयः सुप्रयुक्ता येन स तथा अत एव नयेषु विधाज्ञः-प्रकारवेदिता य इत्यादिरमात्यवर्णको दृश्यः ॥ [पृ. ३९. ] 'सुभद्दे लवण० काल० 'त्ति अयमर्थः-'सुभद्दे सत्थवाहे लवणसमुद्दे कालधम्मुणा संजुत्ते यावि होत्थ' त्ति । [पृ. ४०.] 'अओमयं ' त्ति अयोमयों ' तत्तं ' तप्तां, कथम् ! इत्याह-' समजोइभूयं ' ति सम्ग-तुल्या ज्योतिषा-वह्निना भूता या सा तथा ताम् । ' अवयासाविए' त्ति अवयासितः-आलिङ्गितः । [पृ. ४१.] 'जोव्वण० भविस्सइ' त्ति 'जोव्यणगमणुपत्ते अलं भोगसमत्थे यावि भविस्सइ' इत्येवं द्रष्टव्यम् ।
SR No.002313
Book TitleVivagsuyam
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy