________________
[ ४० ]
सयसन्निविटुं पासाईयं दरसणिज्जं अभिरूवं पडिरूवं ' ति व्याख्या प्राग्वत् ।
'ऊस्सुक्कं ' ति अविद्यमानशुल्कग्रहणं, यावत्करणादिदं दृश्यम्'उक्करं ' क्षेत्रगवादि प्रति अविद्यमानराजदेयद्रव्यम् ‘अभडप्पवेसं' कौटुम्बिकगेहेषु राजवर्णवतां भटानामविद्यमानप्रवेशम् ‘अदंडिमकुदं डिम' दण्डो-निग्रहस्तेन निवृत्तं राजदेयतया व्यवस्थापितं दण्डिमं कुदण्ड:असम्यग्निग्रहस्तेन निर्वृत्तं द्रव्यं कुदंडिमं ते अविद्यमाने यत्र प्रमोदेऽसावदण्डिमकुदण्डिमोऽतस्तम् ' अधरिमं ' ति अविद्यमानं धरिमं–ऋणद्रव्यं यत्र स तथा तम् ' अधारणिज्ज' अविद्यमानावमर्णम् 'अणुध्धुयमुइंगं' अनुध्धूता-आनुरूप्येण वादनार्थमुत्क्षिप्ता अनुध्धूता वा-वादनार्थमेव वादकैरत्यक्ता मृदङ्गा यत्र स तथा 'अमिलायमल्लदामं' अम्लानपुष्पमालं 'गणियावरनाडइज्जकलियं ' गणिकावरैर्नाटकीयैःनाटकपात्रैः कलितो यः स तथा तम् 'अणेगतालाचराणुचरियं' अनेकैः प्रेक्षाकारिभिरासेवितमित्यर्थः, ‘पमुइयपक्कीलियाभिरामं ' प्रमुदितै प्रकीडितैश्च जनैरभिरमणीय ‘जहारिहं' ति यथायोग्यम् ।
[पृ. ३५. ] उदाहु सयमेव गच्छित्ता' उताहो स्वयमेव गमिष्यसीत्यर्थः
'नाइविगेटेहिं ' ति अनत्यन्तदीर्धेः · अद्धाणेहिं ' ति प्रयाणकैः ‘मुहेहिं । ति सुखैः-सुखहेतुभिः, .' वसहिपायरासे हिं' ति वासिकप्रातभॊजनैः ॥