SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ [ ३९ ] [पृ. ३४. ] ' उरंउरेणं' ति साक्षादित्यर्थः ॥ 'सामेण य ' त्ति साम-प्रेमोत्पादकं वचनं 'भेदेण य' त्ति भेदः स्वामिनः पदातीनां च स्वामिन्यविश्वासोत्पादनम् ‘उवप्पयाणेण य' त्ति उपप्रदानं-अभिमतार्थदानं ।। जे वि य से अभितरगा सीसगभम' त्ति येऽपि च 'से' तस्याभग्नसेनस्याभ्यन्तरकाः-आसन्ना मन्त्रिप्रभृतयः, किंभूताः?-'सीसगभम 'त्ति शिष्या एव शिष्यकास्तेषां भ्रमा-भ्रान्तिर्येषु ते शिष्यकभ्रमाः, विनीततया शिष्यतुल्या इत्यर्थः, अथवा शीर्षक-शिर एव शिरःकवचं वा तस्य भ्रमः-अव्यभिचारितया शरीररक्षत्वेन वा ते शीर्षभ्रमाः, इह तानिति शेषः, भिनत्तीति योगः । . तथा 'मित्तनाइणियगे' त्यादि पूर्ववत् ‘मिंदइ' त्ति चोरसेनापतौ स्नेहं भिनत्ति, आत्मनि प्रतिबद्धान् करोतीत्यर्थः ॥ _' महत्थयाइं ' ति महाप्रयोजनानि 'महग्धाई 'ति महामूल्यानि 'महरिहाई । ति महतां योग्यानि महं वा-पूजामर्हन्ति महान् वाऽर्हः पूज्यो येषां तानि तथा, एवंविधानि च कानिचित्केषाञ्चिद्योग्यानि भवन्तीत्यत आह-( 'रायारिहाई ' ति राज्ञामुचितानि )। महं महइमहालियं कूडागारसालं' ति महती-प्रशस्ता महती चासौ अतिमहालिका च-गुर्वी महतिमहालिका ताम् , अत्यन्तगुरुकामित्यर्थः · कूडागारसालं ' ति कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा तथा सा चासौ शाला चेति समासोऽतस्ताम् , ' अणेगखभ
SR No.002313
Book TitleVivagsuyam
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy