SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ 'दंड' ति दण्डनायकम् ॥ [पृ. ३२. ] ' जीवगा है गेण्हाहि ' त्ति जीवन्तं गृहा णेत्यर्थः ॥ [ ३८ ] [ पृ. ३३. ] ' भडचडगरेणं ' ति योधवृन्देन || 6 मग्गइएहिं ' हस्तपाशितैः, यावत्करणात् ' फलिएही ' त्यादि दृश्यम् । 'विसमदुग्गगहणं 'ति विषमं - निम्नोन्नतं दुर्गं - दुष्प्रवेशं गहनं वृक्षगह्वरम् । ' संपलग्गे ' त्ति योध्धुं समारब्धः ॥ 6 ' हयमहिय 'ति यावत्करणादेवं दृश्यम् -' हयमहियपवरवीरघाइयविवडिय चिधधयपढागं ' हतः सैन्यस्य हतत्वात् मथितो मानस्य मथनात् प्रवरवीराः - सुभटाः घातिताः- विनाशिता यस्य स तथा विपतिताः चिह्नयुक्त केतवः पताकाश्च यस्य स तथा ततः पदचतुष्टयस्य कर्म्मधारयः, 'दिसोदिसि विप्पडिसेहि त्ति सर्वतो रणात् निवर्त्तयति ॥ ' अथामे ' त्ति तथाविधस्थामवर्जितः ' अबले' त्ति शारीरवलवर्जितः ' अवीरिय ' त्ति जीववीर्यरहितः 'अपुरिसकारपरक्कमे' त्ति पुरुषकारः - पौरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः तयोर्निषेधादपुरुषकारपराक्रमः ' अधारणिज्जमिति कट्टु' त्ति अधारणीयं - धारयितुमशक्यं स्थातुं वाऽशक्यमिति कृत्वा - हेतोः ॥
SR No.002313
Book TitleVivagsuyam
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy