________________
[ ३७ ] 'तए णं से ' विजयश्चौरसेनापतिः स्कन्दश्रीयं भार्यामुपहतमनःसंकल्पां भूमिगतदृष्टिकामार्तध्यानोपगतां ध्यायन्तीं पश्यति, दृष्ट्वा एवमवादीत्- किं णं त्वं देवानां प्रिये ! उपहतमनःसङ्कल्पेत्यादिविशेषणा ध्यायसीति, इदं वाक्यमनुसृत्य सूत्रं गमनीयम् । ___ 'इट्ठीसकारसमुदएणं' त्ति ऋद्ध्या-वस्त्रसुवर्णादिसम्पदा सत्कारः-पूजाविशेषस्तस्य समुदायो यः स तथा तेन, 'दसरत्तं ठिइपडियं' त्ति दशरात्रं यावत् स्थितिपतितं-कुलकमागतं पुत्रजन्मानुष्ठानं तत्तथा ॥
[पृ. ३१ ] ‘अट्ठदारियाओ' त्ति, अस्यायमर्थः-'तए णं तस्स अभग्गसेणस्स कुमारस्स अम्मापियरो अभग्गसेणं कुमारं सोहणंसि तिहिकरणणक्खत्तमुहुत्तंसि अट्टहिं दारियाहिं सद्धिं एगदिवसेणं पाणि गिण्हाविंसु' ति, यावत्करणादिदं दृश्यं–'तए णं तस्स अभग्गसेणस्स कुमारस्स अम्मापियरो इमं एयारूवं पीईदाणं दलयंति ' त्ति — अटओ दाओ' त्ति अष्टपरिमाणमस्येति अष्टको दायो–दानं वाच्य इति शेषः, स चैवम्-' अट्ठ हिरण्णकोडीओ अटु सुवण्णकोडीओ' इत्यादि यावत् 'अट्ठ पेसणकारियाओ अन्नं च विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसावएज्ज' मिति, 'उप्पि भुंजइ' त्ति अस्यायमर्थः-'तए णं से अभग्गसेणे कुमारे उप्पिं पासायवरगए फुट्टमाणेहिं मुयंगमत्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धेहिं नाडएहिं उवगिज्जमाणे विउले माणुस्सए कामभोगे पञ्चणुब्भवमाणे विहरइ'त्ति ॥
‘महत्थं ' महाप्रयोजनं 'महग्यं ' ति बहुमूल्यं 'महरिहं' ति महतो योग्यमिति ॥