________________
[ ३६ ] 'फलीएहिं त्ति रफटिकैः ‘निक्कट्ठाहिं' ति कोशकादाकृष्टैः 'असीहिं' ति खङ्गैः ‘अंसागएहिं ' ति स्कन्धमागतैः पृष्टदेशे बन्धनात् 'तोणेहिं' ति शरधीभिः 'सजीवेटिं' ति सजीवैः-कोटयारोपितप्रत्यञ्चैः 'धगृहि ति कोदण्डकैः ‘समुक्खित्तेहिं सरेहिं ति निसर्गार्थमुक्षिप्तैर्बाणैः 'समुल्लासियाहिं' त्ति समुल्लासिताभिः । ‘दामाहि' त्ति पाशकविशेषैः ‘दाहाहिं' त्ति क्वचित् तत्र प्रहरणविशेषैः दीर्घवंशाग्रन्यस्तदात्ररूपैः ‘ओसारियाहिं' त्ति प्रलम्बिताभिः ‘ऊरुघंटाहिं ' ति जवाघण्टिकाभिः ।
[पृ. ३०] 'छिप्पतूरेणं वजमाणेणं' द्रुततूर्येण वाद्यमानेन, ‘महया उक्किट्टि ' इत्यत्र यावत्करणादिदं दृश्यं-' महयाउक्ट्ठिीसीहनायबोलकलयलरवेणं' तत्र उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च प्रसिद्धः बोलश्च-वर्णव्यक्तिवर्जितो ध्वनिः कलकलश्च व्यक्तवचनः स एव तल्लक्षणो यो रवः स तथा तेन 'समुदरवभूयं पिव' त्ति जलधिशब्दप्राप्तमिव तन्मयमिधेत्यर्थः गगनमण्डलमिति गम्यते । ___ 'तं जइ अहं पि' त्ति तत्-तस्माद्यद्यहमपि, इह यावत्करणादिदं दृश्यं-'बहुहिं मित्तणाइणियगसयणसंबंधिपरियणमहिलाहिं अन्नाहि ये' त्यादि, 'दोहलं विणिएज्जामी' त्ति दोहदं व्यपनयामीति कड-इति हेतोः 'तंसि दोहलंसि ' त्ति तस्मिन् दोहदे, इह यावत्करणात् 'अविणिज्जमाणंमि मुक्का मुक्खा ओलग्गा' इत्यादि — अट्टझाणोवगया झियाइ' इत्येतदन्तं दृश्यमिति ।