________________
[ ३५ ]
'दिनभइभत्तवेयण' त्ति दत्तं भृतिभक्तरूपं वेतनं-मूल्यं येषां ते तथा, तत्र भृतिः-द्रम्मादिवर्तनं भक्तं तु घृतक गादि ‘कल्लाकल्लिं' ति कल्ये च कल्ये च कल्याकल्यि-अनुदिनमित्यर्थः 'कुद्दालीकाः' भूखनित्रविशेषाः ॥ ____ 'पत्थिकापिटकानि' च वंशमयभाजनविशेषाः; काकी घूकी टिटिभी बकी मयूरी कुर्कुटी च प्रसिद्धा, अण्डकानि च प्रतीतान्येवेति।
[पृ. २९ ] 'तवएमु य ' त्ति नवकानि-सुकुमारिकादितलनभाजनानि 'कवल्लीसु य'त्ति कवल्यो-गुडादिपाकभाजनानि 'कंडुसु' त्ति कन्दवो–मण्डकादिपचनभाजनानि, 'भज्जणएसु य' त्ति भर्जनकानि कर्पराणि धानापाकभाजनानि, अङ्गाराश्च प्रतीताः, 'तलिंति' अग्नौ स्नेहेन. भज्जन्ति-धानावत्पचन्ति 'सोल्लिति य' त्ति ओदनमिव राध्यन्ति खण्डशो वा कुर्वन्ति 'अन्तरावणंसि 'त्ति राजमार्गमध्यभागवतिहट्टे — अंडयपणिएणं' त्ति अण्डकपण्येन ॥
'सुरंचे' त्यादि प्राग्वत्
'जीमियभुत्तुत्तरागयाओ' त्ति जेमिताः-कृतभोजनाः भुक्तोत्तरं भोजनानन्तरमागता उचितस्थाने यास्तास्तथा ।
'पुरिसनेवत्थिज' त्ति कृतपुरुषनेपथ्याः ।
‘सन्नद्ध' इत्यत्र यावत्करणादिदं दृश्यं-सन्नद्धबद्धवम्मियकवइया उप्पोलियसरासणपट्टिया पिणद्धगे विजा विमलवरचिंधपट्टा गहियाउहपहरणावरण त्ति व्याख्या तु प्रागिवेति, ‘भरिएहिं ' ति हस्तपाशितैः