________________
[ ३४ ]
'एवं तचं' त्ति तृतीये चर्चरे 'अट्ठ महापिउए ' त्ति अष्टौ महापितॄन्-पितुर्येष्ठभ्रातॄन् , एवं यावत्करणात् 'अग्गओ घाएंतीति वाच्यम्' । 'चउत्थे ' त्ति चतुर्थे चर्च रे ‘अट्ठ महामाउयाओ' त्ति पितुर्येष्ठभ्रातृजायाः, अथवा मातुर्येष्ठाः सपत्नी:, पञ्चमे चत्वरे .
[पृ. २८ ] पुत्रानग्रतो घातयन्ति, षष्ठे स्नुषाः वधूः सप्तमे जामातृकान् दुहितुर्भर्तृन् अष्टमे ‘धूयाओ' त्ति दुहितः नवमे 'नत्तुए' त्ति नप्तन् पौत्रान् दोहित्रान् वा दशमे ‘नतुईओ' त्ति नप्तुः-पौत्रीहित्रीर्वा एकादशे 'नत्तुयावइ ' त्ति नप्तृकापतीन् द्वादशे 'नत्तुइणीओ' त्ति नप्तृकिनीः पौत्रदाहित्रभार्याः, त्रयोदशे ‘पिउसियपइय' त्ति पितृष्वसापतिकान् तत्र पितुः स्वसारो-भगिन्यस्तासां पतय एव पतिका-भर्तारः 'चउद्दसे पिउसियाओ' त्ति पितृष्यसः-जनकभगिनीः पञ्चदशे ।
'माउसियापइ य' त्ति मातृष्वसुःपतिकान्-जननीभगिनीभर्तृन् षोडशे 'माउसियाओ'त्ति मातृष्वस:-जननीभगिनीः सप्तदशे 'माउसियाओ' त्ति मातुलभार्याः, अष्टादशे अवशेषं 'मित्तणाइणियगसंबंधिपरियणं' त्ति मित्राणि-सुहृदः ज्ञातयः-समानजातीयाः निजकाःस्वजनाः मातुलपुत्रादयः सम्बन्धिनः-श्वसुरश्यालकादयः परिजनो-दासीदासादिः, ततो द्वन्द्वोऽतस्तत् ।
'अ' इह यावत्करणात् 'दित्ते विच्छड्डियविउलभत्तपाणे' इत्यादि — बहुजणस्स अपरिभूए' इत्येतदन्तं दृश्यम् ॥