________________
[ ३२ ]
समुदायारे' अधर्म एव शीलं स्वभावः समुदाचारश्च यत्किञ्चनानुष्ठानं यस्य स तथा ' अधम्मेणं चेव वित्तिं कप्पेमाणे विहरइ' अधर्मेणपापेन सावद्यानुष्ठानेनैव दहनाङ्कननिर्लाञ्छानादिना कर्मणा 'वृत्ति' वर्त्तनं 'कल्पयन् ' कुर्वाणो — विहरती' ति आस्ते स्म, ‘हणछिंदर्भिदवियत्तए' 'हन' विनाशय 'छिन्धि ' द्विधा कुरु । भिन्द' कुन्तादिना भेदं विधेहीत्येवं परानपि प्रेरयन् प्राणिनो विकृन्ततीति हनछिंदभिन्दविकर्तकः, हनेत्यादयः शब्दाः संस्कृतेऽपि न विरुद्धाः अनुकरणरूपत्वादेषां, 'लोहियपाणी' प्राणिविकर्त्तनेन लोहितौ रक्तरक्ततया पाणी हस्तौ यस्य स तथा 'बहूणगरणिग्गयजसे' बहुषु नगरेषु निर्गतं-विश्रुतं यशो यस्य स तथा, इतो विशेषणचतुष्कं व्यक्तम्, 'असिलद्विपढममल्ले ' असिष्ठिः-खड्गलता तस्यां प्रथमः-आद्यः प्रधान इत्यर्थः मल्लो–योधः यः स तथा, 'आहेवचं' ति अधिपतिकर्म यावत्करणात् 'पोरेवच्चं ' सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं ' ति दृश्य, व्याख्या च पूर्ववत् ॥
[ पृ. २७. ] 'गंठिभेयगाण ये' ति घुघुरादिना ये ग्रन्थीः छिन्दन्ति ते ग्रन्थिभेदकाः ‘संधिच्छेयगाण ये' ति ये भित्तिसन्धीन् मिन्दन्ति ते सन्धिच्छेदकाः 'खंडपट्टाण य' त्ति खण्ड:-अपरिपूर्णः पट्टः-परिधानपट्टो येषां मद्यधूतादिव्यसनाभिभूततया परिपूर्णपरिधानाप्राप्तेः ते खण्डपट्टाः-बूतकारादयः, अन्यायव्यवहारिण इत्यन्ये, धूर्ता इत्यपरे, 'खंडपाडियाण' मिति क्वचिदिति, 'छिन्नभिण्णबाहिराहियाणं' ति छिन्ना हस्तादिषु भिन्ना नासिकादिषु 'बाहिराहिय' त्ति नगरादेर्बा