________________
[ ३१ ]
'विसमगिरिकंदरकोलंबसन्निविटा' विषमं यद्गिरेः कन्दरं -कुहरं तस्य यः कोलम्बः-प्रान्तस्तत्र सन्निविष्टः-सन्निवेशिता या सा तथा, कोलंबो हि लोके अवनतं वृक्षशाखाप्रमुव्यते इहोपचारतः कन्दरप्रान्तः कोलम्बो व्याख्यातः, 'वंसोकलंकपागारपरिक्रिवत्ता' वंशीकलङ्का-वंशीजालीमयी वृतिः सैव प्राकारस्तेन परिक्षिप्ता-वेष्टिता या सा तथा, 'छिन्नसेलविसमप्पवायफरिहोवगूढा' छिन्नो-विभक्तोऽ वयवान्तरापेक्षया यः शैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाताः-गतस्त एव परिखा तयोपगूढा-वेष्टिता या सा तथा । ___'अभितरपाणीये ' ति व्यक्तं, 'मुदुल्लभजलपेरंता' सुष्टु दुर्लभं जलं पर्यन्तेषु यस्याः सा तथा, 'अणेगखंडी' अनेका नश्यतां नराणां मार्गभूताः खण्डयः-अपद्वाराणि यस्यां साऽनेकखण्डीति 'विदियजणदिण्णनिग्गमप्पवेसा' विदितानामेव-प्रत्यभिज्ञातानां जनानां दत्तो निर्गमः प्रवेशश्च यस्यां सा तथा, 'सुबहुस्स वि' सुबहोरपि 'कुवियजणस्स वि' मोषव्यावर्तकलोकस्य दुष्प्रध्वस्या चाप्यभवत् ॥
'अहम्मिए' त्ति अधर्मेण चरतीत्यावमिकः, यावत्करणात् 'अधम्मिटे' अतिशयेन निर्मः अवमिष्ठो निस्तूंशकर्मकारित्यात् 'अधम्मक्खाई 'अधर्ममाख्यातुं शीलं यस्य स तथा 'अधम्माणुए' अधर्मकर्तव्यम् अनुज्ञा-अनुमोदनं यस्यासावधर्मानुज्ञः अधर्मानुगो वा 'अधम्मप्पलोयई' अधर्ममेव प्रलोकयितुं शीलं यस्यासावधर्मप्रलोकी 'अधम्मपलज्जणे' अधर्मप्रायेषु कर्मसु प्रकर्षण रज्यते इति अधर्मप्ररजनः, रलयोरैक्यमिति कृत्वा रस्य स्थाने लकारः, 'अधम्मसिल