________________
[ २१ ]
गैरिकक्षोदागुण्डितशरीरं ' चुन्नयं ' ति संत्रस्तं 'बज्झपाणपीयं ' ति वध्या बाह्या वा प्राणाः-उच्छ्वासादयः प्रतीताः प्रिया यस्य स तथा तं 'तिलंतिलं चेव छिज्जमाणं' ति तिलशश्छिद्यमानमित्यर्थः 'कागणिमंसाई खावियं ' काकणीमांसानि तदेहौत्कृत्तहूस्वमांसखण्डानि खाद्यमानं 'पावं ' ति पापिष्ठं 'खक्खरसएहि हम्ममाणं 'ति खर्खरा-अश्वोत्त्रासनाय चर्ममया वस्तुविशेषाः स्फुटितवंशा वा तैर्हन्यमानं-ताड्यमानं 'अप्पणो से सयाई ति आत्मन:-आत्मीयानि 'से' तस्य स्वकानि। ___'अज्झथिए' आत्मगतः, इहेदमन्यदपि दृश्यं 'कप्पिए' कल्पितो-भेदवान् कल्पिको वा-उचितः 'चिंतिए' स्मृतिरूपः 'पत्थिए'प्रार्थितो भगवदुत्तरप्रार्थनाविषयः ‘मणोगए ' त्ति अप्रकाशित इत्यर्थः संकल्पो-विकल्पः 'समुप्पज्जित्था' समुत्पन्नवान् ' अहो णं इमे पुरिसे पुरापोराणाणं दुच्चिन्नाणं दुप्पडिक्कंताणं असुभाणं पावाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुब्भवमाणे विहरइ, न मे दिट्ठा गरगा वा नेरइया वा पञ्चक्खं खलु अयं पुरिसे निरयपडिरूवियं वेयणं वेएइ त्ति कछु' इत्येतत्प्रथमाध्ययनोक्तं वाक्यमाश्रित्याधिकृताक्षराणि गमनीयानीति ॥ ___ 'रिद्धि ' त्ति — रिथिमियसमिद्धे' इत्यादि दृश्य, तत्र ऋद्धभवनादिभिर्वृद्धिमुपगतं स्तिमितं-भयवर्जितं समृद्धं-धनादियुक्तमिति ॥ ___'महयाहि०' इह ' महयाहिमवंतमलयमंदरमहिंदसारे' इत्यादि दृश्यं, तत्र महाहिमवदादयः पर्वतास्तद्वत्सारः प्रधानो यः स तथा