________________
[ २२ ]
• पासाईए' इत्यत्र ‘पासाईए दरिसणिजे अभिरूवे पडिरूवे ' त्ति दृश्य, तत्र प्रासादोयो-मनःप्रसन्नताहेतुः दर्शनीयो-यं पश्यचक्षुर्न श्राम्यति अभिरूपः-अभिमतरूपः प्रतिरूपः-द्रष्टारं प्रति रूपं यस्येति ॥
[पृ. १९] 'नगरवलीवद्दे ' इत्यादौ बलीबर्दा–बर्द्धितगवाः पड्डिका-हस्वमहिष्यो हस्वगोस्त्रियो वा वृषभाः-साण्डगमः ' कूडगाहे' त्ति कूटेन जीवान् गृह्णातीति कूटग्राहः ॥
'अहम्मिए' त्ति धर्मेण चरति व्यवहरति वा धार्मिकस्तन्निषेधादधार्मिकः, यावत्करणादिदं दृश्यम्-' अहम्माणुए ' अधर्मान्पापलोकान् अनुग छतीत्यधर्मानुगाः ‘अहम्मि?' अतिशयेनाधर्मोधर्मरहितोऽधर्मिष्ठः 'अहम्मखाई' अधर्मभाषणशीलः अधार्मिक प्रसिद्धिको वा ' अधम्मपलोई ' अधर्मानेव-परसम्बन्धिदोषानेव प्रलोकयति-प्रेक्षते इत्येवंशीलोऽधर्मप्रलोकी 'अहम्मपलज्जणे' अधर्म एव-हिंसादौ प्ररज्यते-अनुरागवान् भवतीत्यधर्मपरो जनः अहम्मसमुदाचारो' अधर्मरूपः समुदाचारः-समाचारो यस्य स तथा 'अहम्मेणं चेव वित्तिं कप्पमाणे ' त्ति अधर्मेण-पापकर्मणा वृत्तिं'जीविकां कल्पयमानः-कुर्वागः तच्छील इत्यर्थः 'दुस्सीले ' दुष्टशील: 'दुव्वए' अविद्यमाननियम इति ‘दुप्पडियाणंदे' दुष्प्रत्यानन्दःबहुभिरपि सन्तोषकारणैरनुत्पद्यमानसन्तोष इत्यर्थः ।
'अहीण' ति 'अहीणपुण्ण पंचेंदियसरी रे' त्यादि दृश्यम् ॥