SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ [ २० ] गुडा च यद्यपि हस्तिनां तनुत्राणं रूढा तथाऽपि देशविशेषापेक्षयाऽश्वानामपि संभवतीति, अवसारिता-अवलम्बिताः पक्खराः-तनुत्राणविशेषा येषां ते तथा तान् , 'उत्तरकंचुइयओचूलमुहचंडाधरचामर थासगपरिमंडियकडिय' त्ति उत्तरकञ्चुकः-तनुत्राण विशेष एव येषामस्ति ते तथा, तथाऽवचूलकैर्मुखं चण्डाधरं-रौद्रावरौष्ठं येषां ते तथा, तथा चामरैः थासकैश्च-दर्पणैः परिमण्डिता कटी येषां ते तथा, ततः कर्मधारयोऽतस्तान् , 'उप्पीलियसरासणपट्टीए'त्ति उत्पीडिताकृतप्रत्यञ्चारोपणा शरासनपट्टिका-धनुर्यष्टिर्बाहुपष्टिका वा यैस्ते तथा तान् , 'पिणिद्धगेविज्ज' त्ति पिनद्धं-परिहितं अवेयकं यैस्ते तथा तान् , विमलवरबद्धचिंधपट्टे' विमलो वरो बद्धश्चिह्नपट्टो–नेत्रादिमयो यैस्ते तथा तान् । [पृ. १८. ] ' अवउडगबंधणं' ति अवकोटकेन–कृकाटिकाया अधोनयनेन बन्धनं यस्य स तथा तम् , 'उक्खित्तकन्ननासं' ति उत्पाटितकर्णनासिकं नेहतुप्पियगतं' ति स्नेहस्नेहितशरीर 'बज्झकक्खडियजुणियच्छ' ति वध्यश्चासौ करयोः-हस्तयोः कट्यां-कटीदेशे युगं-युग्मं निवसित इव निवसितश्चेति समासोऽतस्तम्, अथवा वध्यस्य यत्करकटिकायुगं-निन्द्यचीवरिकाद्वयं तन्निवसितो यः स तथा तं ॥ ___ 'कंठेगुणरत्तमल्लदामं' कण्ठे-गले गुण इव-कण्ठसूत्रमिव रक्तं-लोहितं मल्लदाम-पुष्पमाला यस्य स तथा तं 'चुनगुंडियगायं'
SR No.002313
Book TitleVivagsuyam
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy