________________
[ १९ ]
सुहं देवाणुप्पिया ! मा पडिबंध' स्खलनां मा कुर्वित्यर्थः, 'तए णं भगवं गोयमे समणेणं ३ अब्भणुन्नाए समाणे समणस्स ३ अंतियाओ पडिनिक्खमइ अतुरियमचवलमसंभंते जुगंतरप्पलोयणाए दिट्ठिए पुरओ रियं सोहेमाणे ' त्ति ।।
संनद्ववद्धवम्मियगुडिए' त्ति संनद्धाः सन्नहत्या कृतसन्नाहाः तथा बद्धं वर्म-त्वक्त्राणविशेषो येषां ते बद्धवर्माणस्त एव बद्धकमिकाः, तथा गुडा-महास्तनुत्राणविशेषः सा संजाता येषां ते गुडितास्ततः कर्मधाग्यः, 'उप्पीलियकच्छे ' त्ति उत्पीडिता-गाढतरबद्धा कक्षा उरोबन्धनं येषां ते तथा तान् ' उदामियघंटे' त्ति उद्दाभिता-अपनीतबन्धना प्रलम्बिता इत्यर्थः घण्टा येषां ते तथा तान् ‘नाणामणिरयणविविहगेविजे' त्ति नानामणिरत्नानि विविधानि ग्रैवेयकानि-ग्रीवाभरणानि उत्तरकञ्चुकाश्च-तनुत्राणविशेषाः सन्ति येषां ते तथा, अत एव 'पडिकप्पिए' त्ति कृतसन्नाहादिसामग्रीकान् ‘झयपडागवरपंचामेलआरूढहत्यारोहे ' ध्वजाः-गरुडादिष्वजाः पताकाः-गरुडादिवर्जितास्ताभिर्वरा ये ते तथा पश्च आमेलकाः-शेखरका येषां ते तथा आरूढा हस्त्यारोहा-महामात्रा येषु ते तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तान् , 'गहियाउहप्पहरणा' गृहीतानि आयुधानि प्रहरणाय येषु अथवा आयुधान्यक्षेप्याणि प्रहरणानि तु क्षेप्याणीति ॥ __ 'सन्नद्धबद्धवम्मियगुडिए ' सि एतदेव व्याख्याति-' आविदगुडे ओसारियपक्खरे 'सि आविद्धा-परिहिता गुडा येषां ते तथा,