________________
[ १६ ] 'कलाओ 'त्ति कलास्तेन गृहीष्यन्ते दृढप्रतिज्ञेनेव यावत्करणाच प्रवध्याग्रहणादिः तस्येवास्य वाच्यं, यावत्सेत्स्यतीत्यादि पदपञ्चकमिति, ततः सेत्स्यति-कृतकृत्यो भविष्यति भोत्स्यते-केवलज्ञानेन सकलं ज्ञेयं ज्ञास्यति मोक्ष्यति-सकलकर्मविमुक्तो भविष्यति परिनिर्वास्यति-सकलकर्मकृतसन्तापरहितो भविष्यति, किमुक्तं भवति ! सर्वदुःखानामन्तं करिष्यतीति ॥
॥ प्रथमाध्ययनविवरणम् ।।
॥ उज्झियए॥ [पृ. १६ ] • अहीणे'त्ति अहीणपुण्णपचिंदियसरी रेत्यर्थः, यावत्करणात् ' लक्वणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुनसुजायसव्वंगसुंदरंगी' त्यादि द्रष्टव्यं, तत्र लक्षणानि-स्वस्तिकादीनि-व्य अनानि–मषीतिलकादीनि गुणाः-सौभाग्यादयः मानं-जलद्रोणमानता उन्मानं-अर्द्धभारप्रमाणता प्रमाणं-अष्टोत्तरशताङ्गुलोच्छ्रयतेति, 'बावत्तरीकलापंडियं 'त्ति लेखाद्याः स्त्रीणां तु विज्ञेया एव प्राय इति, 'चउसद्विगणियागुणोववेया' गीतनृत्यादीनि विशेषतः पण्यस्त्रीजनोचितानि यानि चतुष्पष्ठिर्विज्ञाननि ते गणिकागुणाः अथवा वात्स्यायनोक्तान्यालिङ्गनादीन्यष्टो वस्तूनि तानि च प्रत्येकमष्टभेदत्वाच्चतुःषष्टिभवन्तीति, चतुःषष्टया गणिकागुणैरुपेता या सा तथा, एकोनत्रिंशद्विशेषा एकविंशती रतिगुणा द्वात्रिंशच पुरुषोपचाराः कामशास्त्रप्रसिद्धाः ।