________________
[ १७ ] 'नवंगमुत्तपडिबोहिय' त्ति द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका जिह्वा एका त्वक् एकं च मनः इत्येतानि नवाङ्गानि सुप्तानीव सुप्तानि यौवनेन प्रतिबोधितानि-स्वार्थग्रहणपटुतां प्रापितानि यस्याः सा तथा — अटान्सदेसीभासाविसारय 'त्ति रूढिगम्यं 'सिंगारागार चारुवेस' त्ति शृङ्गारस्य–सविशेषस्यागारमिव चारवेषो यस्याः सा तथा, ' गीयरइगधन्वनट्टकुसल' त्ति गीतरतिश्चासौ गन्ध-नाट्यकुशला चेति समासः, गन्धर्व नृत्यं गीतयुक्तं नाट्यं तु नृत्यमेवेति, 'संगयगय' त्ति 'संगयगयभणियविहियविलाससललियसलावनिउणजुत्तोवयारकुसले' ति दृश्यं सङ्गतानि-उचितानि गतादीनि यस्याः सा तथा, सललिताः-प्रसन्नतोपेता ये संलापास्तेषु निपुणा या सा तथा,
[पृ. १७.] युक्ताः-सङ्गता ये उपचारा-व्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, 'सुंदरथण' त्ति एतेनेदं दृश्यं– सुंदरथणजहणवयणकरचरणनयणलावण्णविलासकलिय' त्ति व्यक्तं नवरं जघनं-पूर्वकटीभागः लावण्यं-आकारस्य स्पृहणीयता विलासः -स्त्रीणां चेष्टाविशेषः 'ऊसियज्झय' त्ति ऊर्वीकृतजयपताका सहस्रलाभेति व्यक्तं विदिन्नछत्तचामरबालवीयणीय' त्ति वितीर्णराज्ञा प्रसादतो दत्तं उत्रं चामररूपा वालव्यजनिका यस्याः सा तथा, 'कन्नीरहप्पयाया यावि होत्य' त्ति कर्णीरथः-प्रवहणं तेन प्रयातंगमनं यस्याः सा तथा 'वाडपी' ति समुच्चये ' होत्थ ' त्ति अभवदिति, ' आहेवच्चं' ति आधिपत्यम्-अधिपतिकर्म, इह यावत्करणादिदं दृश्यं- पोरवच्चं' पुरोवर्तित्वं-अग्रेसरत्वमित्यर्थः ‘भर्तृत्वं'