________________
[ १५ ]
'अहम्पिए' इत्यत्र यावत्करणादिदं दृश्यं-'बहुनगरनिग्गयजसे सूरे दढप्पहारी 'ति, व्यक्तं च । - 'कालमासे 'त्ति मरणावसरे ।
'सागरोवम जाव 'त्ति 'सागरोपमट्टिईएसु नेरइयत्ताए' द्रष्टव्यम् ।
[पृ. १५ ] 'जाइकुलकोडीजोणिप्पमुहसयसहस्साई 'ति जातौ–पञ्चेन्द्रियजातौ कुलकोटीनां योनिप्रमुखानि-योनिद्वारकाणि योनिशतसहस्राणि तानि तथा ।
'जोणीविहाणंसि 'ति योनिभेदे ।
'खलिणमट्टिय 'त्ति खलीना-आकाशस्थां छिन्नतटोपरिवर्तिनी मृत्तिकामिति ।।
'उम्मुक जाव 'त्ति ' उम्मुक्कबालभावे विनयपरिणयमेत्ते जोव्वणगमणुपत्ते 'त्ति दृश्य, तत्र विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्चबुद्धयादिपरिणामापन एव विज्ञकपरिणतमात्रः ।।
[पृ. १६] 'अणंतरं चयं चइत्त 'त्ति अनन्तरं शरीरं त्यक्त्वा च्यवनं वा कृत्वा ।
'जहादढपइन्ने 'त्ति औपपातिके यथा दृढपतिज्ञाभिधानो भव्यो वर्णितस्तथाऽयमपि वाच्यः, कस्मादेवमित्याह-सा चेव 'त्ति सैव दृढप्रतिज्ञसम्बन्धिनी अस्यापि वक्तव्यतेति, तामेव स्मरयन्नाह