________________
[ १४ ]
[पृ. १३ ] • अकामिय 'त्ति निरभिलाषाः ‘असयंवस' त्ति अस्वयंवशा' अट्टनालिओ'ति अष्टौ नाडयः-शिराः ' अभितरप्पवहाउ' त्ति शरीरस्याभ्यन्तर एव रुधिरादि स्रवन्ति यास्तास्तथोच्यन्ते, 'बाहिरप्पवहाउ 'त्ति शरीराद्वहिः पूयादि क्षरन्ति यास्तास्तथोक्ताः, एता एव षोडश विभज्यन्ते 'अट्टे 'त्यादि, कथमित्याह-'दुवे दुवे 'त्ति द्वे पूयप्रवाहे द्वे च शोणितप्रवाहे, ते च क्वेत्याह-'कन्नंतरेसु' श्रोत्ररन्ध्रयोः, एवमेताश्चतस्रः, एवमन्या अपि व्यारव्येयाः, नवरं धमन्यः-कोष्ठकहड्डान्तराणि 'अग्गियए'ति अग्निको भस्मकाभिधानो वायुविकारः।
[पृ. १४ ] 'जाइअंधे' इत्यत्र यावत्करणात् ‘जाइमूए' इत्यादि दृश्यं, 'हुंडं 'ति अव्यवस्थिताङ्गावयवं ' अंधारूवं 'ति अन्धाकृतिः, 'भीया' इत्यत्रैतदृश्यं 'तत्था उब्बिग्गा संजायभया' भयप्रकर्षाभिधानायैकार्थाः शब्दाः, 'करयले 'त्यत्र 'करयलपरिग्गहियं दसणहं मत्थए अंजलिं कटु' इति दृश्यं, 'नवण्ह ' मित्यत्र ‘मासाणं बहुपडिपुन्नाण' मित्यादि दृश्य, तथा 'जाइअंध' मित्यादि च, * संभंते 'ति उत्सुकः उठाए उट्टेइ 'त्ति उत्थानेनोत्तिष्ठति, ‘पय'त्ति प्रजाः-अपत्यानि, 'रहस्सिगयंसि' त्ति राहस्यिके विजने इत्यर्थः ॥
___'पुरा पोराणाणं'ति पुरा-पूर्वकाले कृतानामिति गम्यम् अत 'एव पुराणानां' चिरन्तनानाम्, इह च यावत्करणात् 'दुच्चिन्नाणं दुप्पडिकंताणं' इत्यादि 'पावगं फलवित्तिविसेस 'मित्यन्तं द्रष्टव्यम् ।