________________
[ १३ ]
यावत्करणादिदं दृश्यं- कोसे य कोडागारे य वाहणे य 'त्ति, 'मुच्छिए गढिए गिद्धे अज्झोववण्णे'त्ति एकार्थाः, 'आसाएमाणे' त्यादय एकार्थाः, 'अट्टदुहट्टवसट्टे'त्ति आर्तो मनसा दुःखितो-दुःखातॊ देहेन वशात्तस्तुइन्द्रियवशेन पीडितः, ततः कर्मधारयः, 'उज्जला' इह यावत्करणादिदं दृश्यं-' विडला कक्कसा पगाढा चंडा दुहा तिव्वा दुरहियास 'त्ति एकार्था एव, ' अणिवा अकंता अप्पिया अमणुन्ना अमणामा' एतेऽ पि तथैव ॥
'पुव्वरत्तावरत्तकालसमयंसि 'त्ति पूर्वरात्रो-रात्रेः पूर्वभाग अपररात्रो-रात्रेः पश्चिमो भागस्तल्लक्षणो यः कालसमयः-कालरूपः समयः स तथा तत्र 'कुडुंबजागरियाए 'त्ति कुटुम्बचिन्तयेत्यर्थः, 'अज्झथिए 'त्ति आध्यात्मिकः आत्मविषयः, इह चान्यान्यपि पदानि दृश्यानि, तद्यथा-'चिंतिए 'त्ति स्मृतिरूपः · कप्पिए 'त्ति बुद्ध्या व्यवस्थापितः 'पत्थिए 'त्ति प्रार्थितः प्रार्थनारूपः 'मणोगए 'त्ति मनस्येव वृत्तो बहिरप्रकाशितः संकल्प:-पर्यालोचः, 'इट्टे 'त्यादीनि पञ्चैकार्थिकानि प्राग्वत् , 'धिज्जे 'त्ति ध्येया 'वेसासिय'त्ति विश्वसनीया 'अणुमय' त्ति विप्रियदर्शनस्य पश्चादपि मता अनुमतेति, 'नाम ति पारिभाषिकी सञ्ज्ञा 'गोयं 'त्ति गोत्रं-आन्वर्थिकी स वेति ॥
'किमंग पुण 'त्ति किं पुनः 'अंग' इत्यामन्त्रणे 'गब्भसाडणाहि य' ति शातनाः-गर्भस्य खण्डशो भवनेन पतनहेतवः 'पाडणाहि य' त्ति पातनाः यैरुपायैरखण्ड एव गर्भः पतति 'गालणाहि य इत्ति मैंगों द्रवीभूय क्षरति 'मारणाहि यत्ति मरणहेतवः ।।