________________
[ १२ ]
'सत्यकोसहत्थगय 'त्ति शस्त्रकोशो-नखरदनादिभाजनं हस्ते गतो-व्यवस्थितो येषां ते तथा ॥ ___ 'अवदहणाहि य' त्ति दम्भनैः ‘अवण्हाणेहि य ' त्ति तथाविधद्रव्यसंस्कृतजलेन स्नानैः · अणुवासणाहि य' त्ति अपानेन जठरे तैलप्रवेशनैः ' बत्थिकम्मेहि य 'त्ति चर्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणैः गुदे वा वादिक्षेपणैः । निरुहेहि यत्ति निरुहः-अनुवास एव केवलं द्रव्यकृतो विशेष: ‘सिरावेहेहि य' त्ति नाडीवेधैः 'तच्छणेहि य'त्ति क्षुरादिना त्वचस्तनूकरणैः 'गेहिपच्छहि य 'त्ति हृस्वैस्त्वचो विदारणैः । सिरोवत्थीहि य 'त्ति शिराबस्तिभिः शिरसि बद्धस्य चर्मकोशकस्य द्रव्यसंस्कृततैलाधारपूरणलक्षणाभिः, प्रागुक्तबस्तिकर्माणि सामान्यानि अनुवासना निरुहशिरोबस्तयस्तु तद्भेदाः 'तप्पणाहि य' त्ति तर्पणैः स्नेहादिभिः शरीरबृंहणैः ‘पुडपागेहि य' त्ति पुटपाकाः-पाकविशेषनिष्पन्ना औषधिविशेषाः ‘छल्लीहि य' त्ति छल्लयो-रोहिणीप्रभृतयः
'सिलियाहि यत्ति शिलिकाः-किराततिक्तकप्रभृतिकाः 'गुलियाहि य' त्ति द्रव्यवटिकाः 'ओसहेहि य' त्ति औषधानि-एकद्रव्यरूपाणि ' भेसज्जेहि य ' त्ति भैषयानि–अनेकद्रव्ययोगरूपाणि पथ्यानि चेति ।
[पृ. १२ ] • संत 'त्ति श्रान्ता देहखेदेन 'तंत' त्ति तान्ता मनःखेदेन-'परितंत' त्ति उभयखेदेनेति ‘रज्जे य रटे य' इत्यत्र