________________
११२
यावत्करणात् 'छिण्णमुहे दिण्णं सुक्कं समाणं मिलायमाणं चिट्ठइत्ति दृश्यम् । 'एव'त्ति 'एवामेव धण्णस्स अणगारस्स सीसं सुक्कं लुखं निम्मंसं अठिचम्मछिरत्ताए पण्णायइ नो चेव णं मंससोणियत्ताए'त्ति, अयमप्यालापकः प्रत्यङ्गवर्णके दृश्यो नवरमुदरभाजनकर्णजिह्वोष्ठवर्णकेष्वस्थीति पदं न भण्यते अपि तु 'चम्मछिराए पण्णायइत्ति वक्तव्यमिति । पादाभ्यामारभ्य मस्तकं यावद्वर्णितो धन्यकमुनिः । पुनस्तथैव प्रकारान्तरेण तं वर्णयन्नाह[ पृ० ७९ ]
(३-१५) 'धण्णे णमित्यादि धन्योऽनगारो शंकारो वाक्यालङ्कारार्थः । किंभूतः ?-शुष्केण मांसाद्यभावात् 'भुक्खेणं'ति बुभुक्षायोगात् रूक्षेण पादजङ्घोरुणाऽवयवजातेन लक्षित इति गम्यते, समाहारद्वन्द्वश्चायमिति । तथा 'विगयतडिकरालेणं कडिकडाहेणं'ति विकृतंबीभत्सं तच्च तत्तटीषु-पार्श्वेषु करालं-उन्नतं क्षीणासतयोन्नतास्थिकत्वात् विकटतटीकरालं तेन कटी एव कटाह-कच्छपपृष्ठं भाजनविशेषो वा कटीकटाहं तेन लक्षित इति गम्यते। एवं सर्वत्रापि। 'पिट्ठमवस्सिएणं'ति पृष्ठं-पश्चाद्भागमवाश्रितेन तत्र लग्नेन यकृत्प्लीहादीनामपि क्षीणत्वात् , उदरमेव भाजनं क्षाममध्यत्वात् उदरभाजनं तेन । 'जोइज्जमाणेहिं ति निर्मासतया दृश्यमानैः 'पांसुलिकडएहिं ति पाऑस्थिकटकैः, कटकता च तेषां वलयाकारत्वात् । अक्खसुत्तमाले इ वत्ति अक्षाःफलविशेषास्तेषां सम्बन्धिनी सूत्रप्रतिबद्धा मालाआवली या सा तथा सैव गण्यमाननिर्मासतयाऽतिव्यक्तत्वात्, पृष्ठकरण्डकसन्धिभिरिति प्रतीतं । तथा गङ्गा