________________
११३
तरङ्गभूतेन-गङ्गाकल्लोलकल्पेन परिदृश्यमानास्थिकत्वात् उदर एव कटकस्य- वंशदलमयस्य देशभागो - विभाग इति वाक्यमतस्तेन । तथा शुष्कसर्पसमानाभ्यां बाहुभ्यां 'सिढिलकडाली विव' कटालिका - अश्वानां मुखसंयमनोपकरणविशेषो लोहमयस्तद्वलम्बमानाभ्यामग्रहस्ताभ्यां बाह्वोरभूताभ्यां शयाभ्यामित्यर्थः । 'कंपणवाइओ इवत्ति कम्पनवातिकः - कम्पनवायुरोगवान् 'वेवमाणीए ति वेपमानया कम्पमानया शीर्षघटया-शिरःकटिकया लक्षितः प्रम्लानवदनकमलः प्रतीतम् । 'उब्भडघडमुहे 'ति उद्भटं विकरालं क्षीणप्रायदशनच्छदत्वाद् घटकवदेव मुखं यस्य स तथा । 'उब्बुडूनयणकोसे' त्ति 'उब्बु त्ति अन्तः प्रवेशितौ नयनकोशौ - लोचनकौशकौ यस्य स तथा 'जीवंजी - वेणं गच्छइ' जीववीर्येण न तु शरीरवीर्येणेत्यर्थः, शेषमन्तकृद्दशावदिति ॥
शब्दाः केचन नार्थतोऽत्र विदिताः केचित्तु पर्यायतः, सूत्रार्थानुगतेः समूह्य भणतो यज्जातमागः पदम् । वृत्तावत्र तकत् जिनेश्वरवचोभाषाविधौ कोविदैः, संशोध्यं विहितादरैर्जिनमतोपेक्षा यतो न क्षमा ॥ १ ॥ प्रत्यक्षरं निरूप्यास्य ग्रन्थमानं विनिश्चितम् । द्वाविंशतिशतमिति, चतुणीं वृत्तिसङ्ख्यया अनुत्तरोपपातिकाख्यनवमाङ्गप्रदेशविवरणं समाप्तमिति ।।
॥ २ ॥