________________
११०
कादिषु भवन्ति तेषामुपर्युपरिस्थितानामावली -पद्धतिः स्थासकावली देवकुलामरसारकाकृतिरिति भावः । 'पाणावली इव'त्ति पाणशब्देन भाजनविशेष उच्यते तेषामावली या सा तथा, 'मुंडावलि'त्ति वा मुण्डाः - स्थाणुविशेषा येषु महिषीवाटादौ परिघाः परिक्षिप्यन्ते तेषां निरंतरव्यवस्थितानामावली - पक्तिर्या सा तथा, तथा 'पिट्ठकरंडयाणं ति पृष्ठवंशाभ्युन्नतप्रदेशानां । [ पृष्ट० ७६ ]
(२ - ३ ) ' कण्णावली' ति कर्णा मुकुटादीनां तेषामावली - संहतिर्या सा, तथा 'गोलावली'ति गोलका - वर्तुलाः पाषाणादिमयाः । वट्टय'त्ति वर्त्तका जत्वादिमया बालरमणकविशेषाः । ' एवामेवे ' त्यादि पूर्ववत् । ( ४ ) उरकडयस्स 'त्ति उरो-हृदयं तदेव कटकमुरःकटकं तस्य । ( ५-६ ) 'चित्तकट्टरे इव'त्ति इह चित्तशब्देन किलिञ्जदिकं वस्तु किञ्चिदुच्यते तस्य कट्टं - खण्डं तथा 'वियणपत्ते' त्ति व्यजनकं - वंशादिदलमयं वायुदीरणं तदेव पत्रमिव पत्रं व्यजनपत्रं 'तालियंटपत्ते इ 'त्ति तालवृन्तपत्र-व्यजनपत्रविशेषः एभिश्चोपमानमुरसः प्रतलतयेति । (८८) 'समिसंगलिय'त्ति शमी वृक्षविशेषस्तस्य सङ्गलिका फलिका, एवं बाहाया अगत्थिओ य वृक्षविशेषाविति (१०) 'सुक्कच्छगणिय'त्ति छगणिया - गोमयप्रतरः वटपत्र पलाशपत्रे प्रतीते (१५) 'करगगीवा इव'त्ति वाघटिकाग्रीवा । कुण्डिका-आलुका । 'उच्चत्थवणए इ वत्ति उच्चस्थापनकम् एभिस्त्रिभिरुपमानैग्रीवायाः कृशतोक्तेति । [ पृष्ट० ७७ ]
(१-२) 'हणुयाए ति चिबुकस्य 'लाउयफले इ
6