________________
१०९ [ पृष्ट० ७५ ]
(२) 'काकजंघा इ वत्ति काकजङ्घा-वनस्पतिविशेषः, सा हि परिदृश्यमानस्नायुकास्थूलसन्धिस्थानाच भवतीति । तया जङ्घयोरुपमानम् । अथवा काको वायसः कङ्कः ढेणिकालिके च पक्षिविशेषौ तजङ्घा च स्वभावतो निर्मासशोणिता भवतीति ताभ्यामुपमानमिहोक्तमिति । (५) कालिपोरित्ति काकजङ्घावनस्पतिविशेषपर्व मयूरटेणिकाकालिके पक्षिविशेषौ अथवा ढेणिकालः-तिड्डः । (८-९) 'बोरीकरील्ले इ' बदरी-कर्कन्धूः करीरं-प्रत्यग्रं कन्दलं, शल्यकी शाल्मली च वृक्षविशेषौ पाठान्तरेण 'सामकरिल्ले इ वा' तत्र च श्यामा-प्रियङ्गः । ( ११ ) · कडिपत्तस्से 'त्ति कटी एव पत्रं-प्रतलत्वेनावयवद्वयरूपतया च सर्गादिवृक्षदलं कटीपत्रं तस्य, पाठान्तरेण कटीपट्टस्य, उष्ट्रपाद इति वा, करभचरणो हि भागद्वयरूपोऽनुन्नतश्चाधस्तात् भवतीति तेन युतप्रदेशस्य साम्यं, 'जरग्गपाए इ' जरद्वपादः, 'उदरभायणस्स'त्ति उदरमेव भाजनं क्षाममध्यभागतया पिठरोद्युदरभाजनं तस्य । (१५) 'सुक्कदिए इ वा' इति शुष्कःशोषमुपगतो दृतिः-चर्ममयजलभाजनविशेषः। 'भज्जणयकभल्ले'त्ति चणकादीनां भर्जनं-पाकविशेषापादनं तदर्थ यत्कभल्लं-कपालं घटादिकर्परं तत्तथा। 'कट्ठकोलंबए इ' शाखिशाखानामवनतमग्रं भाजनं वा कोलम्ब उच्यते काष्ठस्य कोलम्ब इव काष्ठकोलम्बः परिदृश्यमानावनत. हृदयास्थिकत्वात् । 'एवामेवोदरं सुक्कं लुक्खं निम्मंस' मित्यादि पूर्ववत् , 'पासुलियकडयाणं ति पांशुलिकाःपास्थिीनि तासां कटकौ-कटौ पांशुलिकाकटौ तयोः (१८) थासयावली इ वत्ति स्थासका-दर्पणाकृतयः स्फुर