________________
१०८
विमनाः' अविगतचित्ता अशून्यमना इत्यर्थः, अकलुषः क्रोधादिकालुष्यरहितत्वात्, 'अविषादी' विषादवर्जितः, 'अपरितन्तयोगी' अविश्रान्तसमाधिः, 'जयणघडणजोगचरिते 'ति यतनं - प्राप्तेषु योगेषूद्यमकरणं घटनं चअप्राप्तानां तेषां प्राप्त्यर्थं यत्नः, यतनघटनप्रधाना योगाः संयमव्यापारा मनःप्रवृत्तयो वा यत्र तत्तथा तदेवंभूतं चरित्रं यस्य स तथा । 'अहापजत्तं 'त्ति यथा पर्याप्तं यथालब्धमित्यर्थः । ' समुद्दाणं 'ति भैक्ष्यं । (१८) 'बिलमिवे'त्यादि, अस्यायमर्थः यथा बिले पन्नगः पाश्र्वसंस्पर्शनात्मानं प्रवेशयति तथाऽयमाहारं मुखेनासंस्पृशनिव रागविरहितत्वादाहारयति - अभ्यवहरतीति ।
[ पृष्ट० ७४ ]
( ८ ) ' तवरूवलावण्णे ' त्ति-तपसा करणभूतेन रूपस्य - आकारस्य लावण्यं - सौन्दर्य तपोरूपलावयमभूत् । (८) शुष्कछल्ली - शुष्कत्वक् काष्ठस्य सत्का पादुका काष्ठपादुका प्रतीता 'जरग्गओवाहण' त्ति जरत्काजरती जीर्णेत्यर्थः सा चासावुपानच्चेति जरत्कोपानत् । (१०) 'अट्ठिचम्म छिरत्ताएत्ति अस्थीनि च चर्म च शिराश्च - स्नायो विद्यन्ते ययोस्तौ तथा तद्भावस्तत्ता तथा अस्थिचशिरावत्तया प्रज्ञायेते यदुत पादावेताविति न पुनर्मासशोणितवत्तया तयोः क्षीणत्वादिति । (१२-१३) 'अयमेयारूवे तवरूवलावण्णे होत्था से जहा नाम 'त्ति प्रत्यालापकं द्रष्टव्यं, (१३) 'कल'त्ति कलायो धान्यविशेषस्तेर्षा 'संगलिय'त्ति फलिका मुद्रा माषाश्च प्रतीताः । (१४) 'तरुणय'त्ति अभिनवा कोमलेत्यर्थः । (१५) 'मिलायमाणित्ति म्लायन्ती - म्लानिमुपगता ।