________________
१०५
शतं तपोदिनानां । पंचविंशतिस्तु पारणक दिनानां । एवं शतद्वयं दिनानामेकस्यां पारिपाठ्यां भवति । तच्चतुष्टये त्वेतदेव चतुर्गुणमिति । वाचनान्तरे प्रतिमात्रयस्य लक्षणगाथा उपलभ्यन्ते । यथा-' -" आई दोण्ह चउत्थं आई भदोत्तराए बारसमं । बारसमं सोलसमं वीसइमं चेव चरिमाइं॥ | १ || " आदिः प्रथमं तपः द्वयोः क्षुद्र सर्वतोभद्र महासर्वतोभद्रयोः प्रतिमयोश्चतुर्थ- एकोपवासः, तथा आदि : - आद्यं तपो भद्रोत्त रायां- तृतीयप्रतिमायां द्वादशं उपवास पंचकं, ततः क्रमेण द्वादशं उपवासपञ्चकं षोडशं-उपवास सप्तकं विंशतितमं चैव-उपवासनवकम्, एवं च चरमानि सर्वान्तिमतपांसि शेषाणि तु क्रमेण स्थाप्यन्त इति तपस्त्रयेऽपि प्रथम पंक्तिरचनेति । अथ द्वितीयादिपंक्तिरचनार्थमाह"पढमं तइयं तो जाव चरिमयं ऊणमाइओ पूरे | पंच य परिवाडीओ खुड्डगभद्दुत्तरा य ॥ २ ॥ प्रथमपंक्तौ 'तइयं'ति तृतीयमंङ्कं पढमं - द्वितीयपंक्तिरचनायां प्रथमं स्थापयेत् । स च क्षुद्रसर्वतोभद्रायां त्रिको भवति । भद्रोत्तरायां तु सप्तकः । 'तो'त्ति ततोऽनन्तरं क्रमेणोत्तरान् स्थापयेद् यावच्चरमं । स च सर्वतोभद्रायां चतु
चरमात्परत
कानन्तरः पंचको भवति । भद्रोत्तरायां त्वष्टकान्तरो नवक इति । ततश्चरमानन्तरं यदूनं कोष्टकाञ्जातं तदादितः - एककादेरारभ्य पूरयेदिति, एवं एकको द्विश्च सर्वतोभद्रायां । इतरस्यां तु पंचकः षट्कश्चेति द्वितीयपंक्तिस्थापना । एवमेवोपरितन्यपेक्षयाऽधस्तनो इत्येवं सर्वाः पंच परिपाठ्याः - पंकयो रचनीयाः । खुड'ति क्षुद्रकसर्वतोभद्रायां भद्रोत्तरायां चेति । गाथार्थश्चायं प्रागुक्तयन्त्रकादवसेय इति । अथ महासर्वतोभद्राया द्वितीयादिपंक्तिरचनार्थमाह - "पढमं तु चउत्थं जाव चरिमयं ऊणमाइओ पूरे । सत्त य परि
-