SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १०६ वाडीओ महालए सव्वओभद्दे ॥ ३ ॥ " महासर्वतोभद्रायां द्वितीयायां पंक्तौ कर्तव्यतायां प्रथमं - आदौ चतुर्थ - प्रथम पंक्तयपेक्षया चतुर्थस्थानवर्त्तिनं यथा प्रथमपंतौ चतुष्ककस्ततः क्रमेणान्यानवस्थाप्य यावच्चरमं यथा सप्तकस्ततोऽनन्तरं यदूनं पंक्तेस्तदादितः पूरयेत् । एवं च सप्त परिपाट्यः - पंक्तयः पूरयितव्याः । 'महालये 'त्ति महति सर्वतोभद्रे - सर्वतोभद्रप्रतिमायामिति । [ पृष्ट० ६२. ] ( १२ ) मुक्तावली सुज्ञानैव । नवरं तस्यां चतुर्थ । ततः षष्ठादीनि चतुस्त्रिंशत्तमपर्यन्तानि चतुर्थभक्तान्तरितानि । ततश्चतुर्थ । ततः प्रत्यावृत्त्या द्वात्रिंशत्तमादीनि षष्ठान्तानि । ततश्चतुर्थ च करोति । एवं चेयं तपसि इयत्प्रमाणा भवति - षोडशसङ्कलनादिना : २६६ पंचदशसङ्कलना च १२० चतुर्थानि २८ पारणकानि ६९ । एषां च मीलनेन मासाः ११ दिनानि १३ भवन्ति । सूत्रे तु दिनानि १५ दृश्यन्ते तत्तु नावगम्यत इति । [ पृष्ट० ६४. ] ( ३ - ४ ) अथानन्तरोदितानां काल्यादिसाध्वीनां पर्यायपरिमाणप्रतिपादनायाह- 'अट्ठ य' गाहा, अष्ट च वर्षा - म्यादिं कृत्वा एकोत्तरिकया - एकोत्तरतया क्रमेण यावत सप्तदश तावच्छ्रेणिकभार्याणां पर्याय इति ॥ यदिह व्याख्यातं तज्ज्ञाताधर्मकथाविवरणादवसेयम् ॥ एवं च समाप्तमन्तकृद्दशाविवरणमिति ॥ न अनन्तरसपर्यये जिनवरोदिते शासने, यह समयानुगा गमनिका किल प्रोच्यते । गमान्तरमुपैति सा तदपि सद्भिरस्यां कृतावरूढगमशोधनं ननु विधीयतां सर्वतः ॥ १ ॥ इत्यन्तकृद्दशावृत्तिः सम्पूर्णा ॥
SR No.002312
Book TitleAntagadadasao and Anuttarovavaidasao
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1932
Total Pages352
LanguageSanskrit
ClassificationBook_Devnagari, agam_antkrutdasha, & agam_anuttaropapatikdasha
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy