________________
विविधस्वभावा द्वाविंशतिः परीषहाः । उपसर्गाश्च षोडश । 'ग्रामकण्टका' इन्द्रियग्रामस्य बाधकत्वेन कण्टका इवेति। [पृष्ट० ३३. ]
(५) ' अट्ठवि पउमावइसरिसाओ' त्ति पद्मावत्या सहाष्टौ, ताश्च पद्मावतीसदृशाः । समानवक्तव्यता इत्यर्थः। परं नामसु विशेषः । एवं च 'अट्ठ अज्झयण'त्ति एतान्यष्टावध्ययनानि च वासुदेवभार्याष्टकप्रतिबद्धत्वात् । अन्त्यं तु अध्ययनद्वयमष्टकविलक्षणं वासुदेवस्नुषाप्रतिबद्धत्वादिति । पञ्चमस्य वर्गस्य निक्षेपो वाच्यः । [ पृष्ट० ३४ ]
(३-७) षष्ठस्य चोपक्षेपस्तत्र च षोडशाध्ययनानि, तेषु श्लोकेनाष्टावष्टौ तु गाथयोक्तानीति । [ष्टष्ट० ३५. ]
(१४) 'किण्हे जाव 'त्ति इह यावत्करणात् “किण्हे किण्होभासे नीले नीलोभासे' इत्यादि मेघनिकुरभ्वभूत इत्येतदन्त आरामवर्णको दृश्यः । [ पृष्ट० ३६. ]
(१०-११ ) 'ललिय'त्ति दुर्ललितगोष्ठी भु. जङ्गसमुदायः । आढ्या यावच्छब्दाद्दीता बहुजनस्यापरिभूता । 'जं कयसुकय 'त्ति यदेव कृतं शोभनमशोभनं वा तदेव सुष्टु कृतमित्यभिमन्यते पितृपौरादिभिर्यस्याः सा यत्कृतसुकृता। ( १३ ) 'पमोए त्ति महोत्सवः। [ पृष्ट० ३७. ]
(३) 'अग्गाई 'त्ति अने भवान्यग्राणि प्रधानानीत्यर्थः वराणि तान्येव, एकार्थशब्दोपादानं तु प्राधा