________________
न्यप्रकर्षख्यापनार्थ ।(१०) 'अवओडयबंधणयंति अवमोटनतोऽवकोटनतो वा पृष्ठदेशे बाहुशिरसा संयमनेन बन्धनं यस्य स तथा । ( १८ ) 'दवदवस्स 'त्ति द्रुतं द्रुतं। [ पृष्ट० ३८. ]
(५) 'सुवत्तं णं एस कडे ' व्यक्तं स्फुटम् एषः यक्षः प्रतिमारूपः 'काष्ठं' दारु तन्मयत्वाद्देवताशून्यत्वेनाकिश्चित्करत्वादिति । ( २१-२३ ) 'सइरं निग्गच्छउ 'त्ति स्वैरं-यथेष्टं निर्यातु। [ पृष्ट० ३९.]
(१२) 'इह आगय' मित्यादि, इह नगरे आगतं प्रत्यासन्नत्वेऽप्येवं व्यपदेशः स्यात् । अत उच्यते-इह संप्राप्तं प्राप्तावपि विशेषाभिधानायोच्यते इह समवसृतंधर्मव्याख्यानप्रह्वतया व्यवस्थितं, अथवा इह नगरे पुनरिहोद्याने पुनरिह साधूचितावग्रहे इति । [ पृष्ट० ४०. ]
- (११) 'सुद्धप्पत्ति शुद्धात्मा यावत्करणात् 'वेसियाई पवरवत्थाइं परिहिए अप्पमहग्धाभरणालंकियसरीरे'। [ पृष्ट० ४१. ]
(७) 'वत्थंतेणं ति वस्त्राश्चलेन 'करयलपरिग्गहियं सिरसावत्तं दसनहं अंजलि मत्थए कट्ट' इति द्रष्टव्यं । [ पृष्ट० ४२. ]
(६-७) 'नो चेव णं संचाएइ सुदंसणं समणोवावासयं तेयसा समभिपडित्तए' त्ति न शक्नोति सुदर्शनं समभिपतितुम् आक्रमितुमित्यर्थः। केन ? तेजसा प्रभावेन सुदर्शनसम्बन्धिनेति ।