________________
९२ 'तद्धि पश्चवर्णमपि भवतीति रक्तग्रहणं लाक्षारसो- यावकः 'सरसपारिजातकम्' अम्लानसुरद्रुमविशेषकुसुमं ' तरु'दिवाकरः' उदयदिनकरः एतैः समा - एतत्प्रभातुल्ये - त्यर्थः प्रभा - वर्णो यस्य स तथा रक्त इत्यर्थः तं सर्वस्य जनस्य नयनानां कान्तः - कमनीयाऽभिलषणीय इत्यर्थः । सर्वनयणकान्तस्तं ' सूमाले 'त्ति 'सुकुमालपाणिपाय ' मित्यादिवर्णको दृश्यो यावत्स्वरूपमिति राजतालुकसमानं कोमलरक्तत्वाभ्यां । (२०) 'रिउव्वेदे' इत्यादि ऋग्वेदयजुर्वेद सामवेदाथर्ववेदानां साङ्गोपाङ्गानां सारको धारकः पारग इत्यादिवर्णको यावत्करणाद् दृश्यः । [ पृष्ट० १५. ]
(१) ' बहूहिं' इत्यत्र वह्नीभिः कुब्जिकामिः याव त्करणाद्वामनिकामिः चेटिकाभिः परिक्षिप्ता इत्यादिवर्णको दृश्यः । ( २३ ) 'जहा मेहो महेलियावज्जं 'ति यथा प्रथमे ज्ञाते मेघकुमारो मातापितरौ सम्बोधयति एवमयमपि । केवलं तत्र मात्रा । तं प्रतीदमुक्तं । एतास्तव भार्याः सहगूंवयसः सदशराजकुलेभ्य आनीता भुङ्क्ष्व तावदेताभिः सार्द्धं विषयसुखमित्यादि तदिह न वक्तव्यं, अपरिणीतत्वात्तस्य, कियत्तद्वक्तव्यम् ? इत्याह-' जाव वड्रियकुले' त्तित्वं जातोऽस्माकमिष्टपुत्रो नेच्छामस्त्वया वियोगं सोढुं ततो भुंक्ष्व भोगान् यावद्वयं जीवाम इत्यत आरभ्य यावदस्मासु दिवं गतेषु परिणतव्याः वर्द्धिते कुलवशतन्तुकार्ये निरपेक्षः सन् प्रव्रजिष्यसीति । [ पृष्ट० १६. ]
"
(७-८) 'खेलासवा' इह यावत्करणात् ' सुक्कासवा' सोणिया सवा' यावदवश्यं विप्रहातव्याः । ( १२ ) ' आघवित्तपत्ति आख्यातुं भणितुमित्यर्थः ।