________________
ददति समुल्लापकान् सुमधुरान् पुनः पुनर्मज़ुलप्रमणितान् मञ्जुलं-मधुरं प्रभणितं-भणितिर्येषु ते तथा तान् , इह सुमधुरानित्यभिधाय यन्मञ्जलप्रभणितानित्युक्तं तत्पुनरुक्तमपि न दुष्टं सम्भ्रमभणितत्वादस्येति । ( २५ ‘एत्तो 'त्ति विभक्तिपरिणामादेषामुक्तविशेषणवतां डिम्भानां मध्यात् एकतरमपि-अन्यतरविशेषणमपि डिम्भं न प्राप्ता इत्युपहतमनःसङ्कल्पा भूगतहष्टिका करतले पर्यस्तितमुखी ध्यापति । [ पृष्ट० १३.]
(१३) 'तहा घइस्सामि त्ति यतिष्ये 'कणीयसे' त्ति कनीयान्-कनिष्ठो लघुरित्यर्थः । ( १७ ) 'जहा अभओ 'त्ति यथा प्रथमे ज्ञातेऽभयकुमारोऽष्टमं कृतवान् तथा यमपीति नवरं-केवलमयं विशेषः अयं हरिणेगमेषिणआराधनायाष्टमं कृतवान् , स तु पूर्वसङ्गतिकस्य देवस्येति, (२०) 'विइण्णं' ति वितीणदत्तं युष्माभिरिति गम्यते, [ पृष्ट० १४. ]
( १०-११ ) ' तंसि तारिसगंसी ' त्ति त्यादौ यावत्करणात् शयनसिंहवर्णको साद्यन्तौ दृश्यौ, 'सुमिणे पासित्ता णं पडिबुद्धा जाव'त्ति इत्तो यावत्करणात् हृष्टा तुष्टा स्वप्नावग्रहं करोति शयनीयात्पादपीठाच्चावरोहति राज्ञे निवेदयति, स तु पुत्रजन्म तत्फलमादिशति, 'पाढग'त्ति स्वप्नपाठकानाकारयति, तेऽपि तदेवादिशन्ति, ततो राज्ञा तदादिष्टमुपश्रुत्य 'परिवहइत्ति सुखसुखेन गर्भ परिवहतीति द्रष्टव्यमिति । ( १३-१७ ) 'जासुमिणे 'त्यादि जपा-वनस्पतिविशेषस्तस्याः सुमनसः-पुष्पाणि रक्तबन्धुजीवक-लोहितबन्धुकं