________________
८६
<
एषः । ( १५ ) ' महब्बले' त्ति यथा भगवत्यां महाबलस्तथाऽयं वाच्यः । तत्र च यद्वक्तव्यं तद्गाथया दर्शयति । ( १६ - १७) सुमिदंसण - कहणे'त्ति स्वप्नदर्शनं स्वप्ने सिंहदर्शनमित्यर्थः ; 'कहणे 'ति 'कथना'; स्वप्नस्य राज्ञे निवेदना | जन्म दारकस्य । बालत्वं तस्यैव । एवमादि सर्वमस्य तदक्षरं महाबलवद्वक्तव्यम् । अस्ति परं विशेषः 'अट्टहओ दाओत्ति परिणयनानन्तरमष्टौ हिरण्यकोटीरित्यादि 'दाओ'त्ति दानं वाच्यं ।
[ पृष्ट० ४ ]
मेयारूवे
"
(१) ' तर ण ' मित्यादौ तस्य गौतमस्य 'अयअब्भत्थिए [४] संकप्पे समुप्पज्जित्था इत्यादि सर्वे यथा मेघकुमारस्य प्रथमज्ञाते उक्तं तथा वाच्यम् । अत वाह ( २ ) जहा मेहे तहा निंग्गe धम्मं सोच्चा' इत्यादौ सर्वत्रोचितक्रियाऽध्याहारो वाच्यो मेघकुमारचरितमनुस्मृत्येति । ( १६ - १७) एवं सर्व गौतमाख्यातकं भगवती प्रतिपादितस्कन्दककथानकसमानं तदनुसारेण सनिगमनं वाच्यमिति, नवरं भिक्षुप्रतिमा एवम् - एकमासपरिमाणा एकमासिकी एवं द्वयादिसप्तान्तमासपरिमाणा द्विमासिक्याद्याः सप्तमासिक्यन्ताः, तथा सप्तरात्रंदिवप्रमाणाः प्रत्येकं सप्तरात्रिदिवास्तिस्रः अहोरात्रिकी एकरात्रिकी चेति, स्वरूपं चासां विशेषेण दशाश्रुतस्कन्धादवसेयं । (१७) तथा गुणरत्नसंवत्सरं तपः एवंरूपं तत्र हि प्रथमे मासे निरन्तरं चतुर्थ तपः, दिवोत्कटुकस्य सूराभिमुखस्यावस्थानं रात्रौ वीरासनेनाप्रावृतस्य, एवमेव द्वितीयादिषु षोडशावसानेषु मासेषु षष्ठभक्तादि चतुत्रिंशत्तमभक्तपर्यन्तं तप इति ।
,