________________
॥ प्रथमं परिशिष्टम् ॥ [श्रीचन्द्रगच्छीयश्रीमदभयदेवसूरिविरचिता श्रीमदन्तकृद्दशावृत्तिः ।] [ पृष्ट० १. ]
___ अथान्तकृद्दशासु किमपि विवियते-तत्रान्तो-भवान्तः कृतो-विहितो यैस्तेऽन्तकृतास्तद्वक्तव्यताप्रतिबद्धा दशाः-दशाध्ययनरूपा ग्रन्थपद्धतय इति अन्तकृद्दशाः, इह चाष्टौ वर्गा भवन्ति । तत्र प्रथमे वगै दशाध्ययनानि । तानि शब्दव्युत्पत्तेनिमित्तमङ्गीकृत्यान्तकृतद्दशा उक्तास्तत्र चोपोद्घातार्थमाह(१) तेण' मित्यादि सर्वमिदं शाताधर्मकथायामिवावसेयं । [ पृष्ट० २. ]
(८) 'गोयमे'त्यादिगाथाऽप्यध्ययनसंग्रहार्था । (१६)'धणवइमइनिम्माया'इति वैश्रमणबुद्धिविरचिता (१७) अलयापुरिसंकासा'त्ति अलकापुरीवैश्रमणयक्षपुरी तत्सदृशी 'पमुइयपक्कीलिय'त्ति तन्निवासिजनानां प्रमुदितत्वप्रक्रीडितत्वाम्यामिति । [ष्टष्ट० ३. ]
(१) 'महया० रायवण्णओ'त्ति 'महयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादी राजवर्णको वाच्यः। स च यथा प्रथमज्ञाते मेघकुमारराज्याभिषेकावसरे तथा दृश्यः। (२)'दसण्हं दसाराणं'ति तत्रैते दश-'समुद्रविजयोऽक्षोभ्यः स्तिमितः सागरस्तथा । हिमवानचलश्चैव, धरणः पूरणस्तथा ॥१॥ अभिचन्द्रश्च नवमो, वसुदेवश्च वीर्यवान् । वसुदेवानुजे कन्ये, कुन्ती मद्री च विश्रुते ॥२॥"दश च तेऽश्चि-पूज्या इति दशार्हाः। (११) 'तत्थ' त्ति तस्यां च द्वारिकावत्यां नगर्यामन्धकवृष्णिर्यावविशेष