________________
द्वितीय प्रकाश
इतस्तुङ्गा भ्रमद्धृङ्गाः क्वचिद् वल्गन्ति दन्तिनः । इतो धावन्महाव्यालजातकोलाहलः कचित् ॥ १०२॥ इतो दासेरकारब्धयुद्धस्तब्धस्थितो जनः ।। प्रचण्डाः पर्वतप्राया इतो गर्जन्ति दन्तिनः ॥१०३ ॥ भ्रमद्व्याघ्रव्रजक्ष्वेडात्रासिता जनता इतः। इत उच्चैःश्रवःप्रख्या हेषन्ते हर्षिता हयाः ॥१०४ ॥ इत्यमाविर्भवन्नैककौतुकाकृष्टमानसः । अकब्बरमहीशस्य राजलोको व्यराजत ॥ १०५ ॥ नानां सहस्रमध्येतुमुद्यतस्तिग्मरोचिषः। विस्मृतान्यरसस्तत्र श्रीशाहिस्तानजूहवत् ॥१०६ ॥ भक्तिप्रहमनाः सम्यग् रवेरभिमुखः स्थितः। अध्यगीष्ट मुखात्तेषां मूर्द्धबद्धाञ्जलिस्ततः ॥१०७॥ . पाठनात् प्रत्यहं प्रातः प्रभूणां प्रौढपर्षदि । शुभोदकः प्रतापार्कः श्रीगुरूणामदीप्यत ॥ १०८॥ ततः स्फीतिमती जज्ञे तीर्थकृच्छासनोन्नतिः। ननर्त्त श्रीगुरोः कीर्तिर्नटीव भुवनत्रये ॥१०९॥ अन्येास्ते नृपं प्रोचुर्दीनानुद्धर्नुमित्सवः। अष्टाह्निकादिने दानं दत्तं शतगुणं भवेत् ॥ ११०॥ तदाकाब्रवीद्भुमानौपवस्त्रं विधाय तत् । दुःग्वितेभ्यः प्रदातव्यं मया वर्णादिकं महत् ॥ १११ ॥ ततः लात्वा सभासीनः श्वेतवस्त्र विभूषितः। दीनेभ्यः स्वर्णमुद्राणां षट्सहस्रीमदत्त सः॥ ११२ ॥ साग्रहं वर्णमुद्रां तां दीयमानां महीभुजा । न ललुस्ते ततस्तेनाज्ञायि यन्निःस्पृहा इमे ॥११३ ॥ तदैवाजीजकोकानामिति विज्ञप्तिरागमत् । आजौ जामं विनिर्जित्य गृहीतस्तजनोऽखिलः ॥ ११४ ॥ तन्निशम्योल्लसद्धर्षप्रकर्षाकुलितः प्रभुः। श्रीगुरून व्याजहाराह पूर्णपात्र प्रगृह्यताम् ॥ ११५॥ लब्धलक्षैः स तैः प्रोचे मुच्यतामनुगृह्य माम् । प्रसन्नीभूय सौराष्ट्रराष्ट्रबन्दीकृतो जनः ॥ ११६ ॥ इतो बन्दीजनाः सर्वे मविषद्देशवर्तिनः। इतश्चैषां महापुंसां दाक्षिण्यमतिदुस्त्यजम् ॥ ११७ ॥
.
30
१ उत्सवेषु सुहृद्भिर्यदलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत्पूर्णपात्रं पूर्णानकं च तत् ॥१॥-टिप्पणी । २ अवसरः।-टिप्पणी।
भा.३