________________
.
श्रीभानुचन्द्रगणिचरित इत्यालोच्य क्षणं तस्थौ धरित्रीरमणः खयम् । मा भवत्मार्थनाभङ्गो विमृश्येत्यवदत् पुनः॥ ११८॥ मोचनं बन्दिवृन्दानां कियन्मात्रमिदं पुनः। भवत्प्रार्थनया सर्वः सौराष्ट्रोऽपि प्रदीयते ॥ ११९ ॥ तस्मिन्नेव क्षणे तेषां बद्धवन्दिविमुक्तिकृत् । सौवमुद्राङ्कितं कृत्वा स्फुरन्मानं स दत्तवान् ॥ १२० ॥ ते च तत्प्रेषयांचक्रुर्गुरोर्गुर्जरमण्डले। खीयं च सर्वदेशेषु शरच्चन्द्रोज्वलं यशः ॥ १२१ ॥ इतो लाभपुरद्रङ्गे नासीत्पूर्व प्रतिश्रयः। इति व्यचिन्तयचित्तेऽन्यदा ते तच्चिकीर्षवः ॥ १२२॥ म्लेच्छा मिथ्यादृशश्चान्येऽप्यस्मधर्मद्विषो यतः। कर्तुं शक्यो विना शक्तिं ततो नात्र प्रतिश्रयः॥ १२३ ॥ अत्रार्थे किमु कर्त्तव्यमित्युपाये कृताशयाः। ययुः श्रीमत्सुरत्राणाध्यापनाय चिरेण ते ॥ १२४ ॥ महीन्द्रस्ताँश्चिराऽऽयातान् गुरून न्यजीगदत्ततः। चिरेणाद्यागतास्तत्र किं निदानं निगद्यताम् ॥ १२५ ॥ विस्तीर्णेऽपि पुरे दूरे स्थानं सङ्कीर्णमस्ति नः। तत्रापि तन्न चात्मीयं नानुकूलश्च तत्पतिः ॥ १२६ ॥ तचिन्ताव्याकुलखान्ततयैवाद्य स्थितश्विरम् । तेषामित्युक्तमाकर्ण्य पूर्णप्रेमाऽवदन्नृपः॥ १२७॥ सुधोज्ज्वलानि सौधानि रम्यहाणि चाश्रमाः। सन्ति मे यद्भवद्योग्यं स्थानं तत् प्रतिगृह्यताम् ॥ १२८ ॥ विभाव्येत्यात्मनीनं तन्नायतौ ग्रहणं यतः। ततस्तैस्तत्कृते भूमिः प्रार्थिता भूभुजः पुरः॥ १२९ ॥ तदा तां तद्वचो भूमानुरीकृत्य प्रदत्तवान् । प्रारब्धश्च ततः संधैर्मध्येद्रङ्ग प्रतिश्रयः ॥ १३०॥ शनैः शनैर्वर्द्धमानः प्रत्यहं तन्मनोरथैः । क्रमेण पूर्णतां प्राप शुक्लपक्षे शशीव सः ॥ १३१ ॥ यस्मिन्नभ्रंलिहैः शृङ्गः स्फटिकोपलनिर्मितैः। इत्याशकिष्ट पुर्लोकः किमसौ स्फटिकाचलः ॥ १३२ ॥ तारासु तन्दुलभ्रान्त्या यदुच्चैः शिखरस्थिताः। तुण्डं ताण्डवयामासुर्मुग्धाः सर्वेऽपि पत्रिणः ॥ १३३ ।। शातकुम्भमयैर्यत्र कलशैः शिखरस्थितैः। अशति विस्मितैर्लोकैः शतसूर्य नभस्तलम् ॥ १३४ ॥