________________
द्वितीय प्रकाश
भाग्याभ्युदयतस्तेषां मिलितः कोऽपि धीधनः। तेन दत्तं तदा तत्तैः श्रीशाहेः प्राभृतीकृतम् ॥ ६८॥ तीक्ष्य संमदोद्रेकात् श्रीशाहिस्तानभाषत । 'अध्येतव्यं मया कस्य सन्निधौ तन्निगद्यताम् ॥ ६९॥ वशीकृतेन्द्रियग्रामो भूशायी ब्रह्मभृच यः। स एवात्राधिकारी स्यादित्युक्ते शाहिरब्रवीत् ॥७॥ 'युक्ता भवन्त एवात्र भवन्तस्तादृशैर्गुणैः। पूज्यैरेव प्रतिप्रातः पाठनीयमिदं मम ॥७१॥ इत्युदीर्य विभावयां भूपः शुद्धान्तमध्यगात् । हर्षोत्कर्षोल्लसद्वक्षा विबुधश्च प्रतिश्रयम् ॥ ७२ ॥ अश्रान्तानन्तपदवीलङ्घनैः श्रान्तवानिव । शशी शनैः शनैरस्ताचलचूलामथाऽऽश्रयत् ॥७३॥ गर्भाश्मगर्भचन्द्र श्म (१)कल्पितोत्तंसिकेव सा। अस्ताचलश्री ति स्म मौलिलीलायितेन्दुना ॥७४॥ चन्द्रश्चङ्क्रमणक्लान्तं वाशनायितरोहितम् । वनाय मोक्तुमस्तानेरध्यास्त किमधित्यकाम् ॥७५॥ इतोऽभ्युदयते भानुरितश्चन्द्रोऽस्तमीयते । इदं किमप्यनीहक्षमहो विलसितं विधेः॥ ७६ ॥ प्रेक्ष्य क्षपाक्षये चन्द्रं विद्राणं चन्द्रगोलिका। त्यक्त्वा कान्तं ययौ कापि पुंश्चलीव यदृच्छया ॥७७॥ तमीप्रियतमो मध्यं प्रत्यग्द्वीपवतीपतेः। जनिकर्तुर्निजस्येव मिलनाय समीयिवान् ॥ ७८॥ दत्वोदयं त्वमेवास्तं कथं दत्से प्रियस्य नः । तारका इत्युपालन्धुं भेजुरस्ताचलं किमु ॥ ७९ ॥ नक्षत्रपद्धतेः प्रातर्धस्यन्तोऽम्बुधरादिव । क्षणाद्विलयमासेदुस्तारका करका इव ॥ ८॥ निशाशनायितेनाभ्रपथे तारकतन्दुलाः। दिनाननशकुन्तेन शंके कुक्षिगतीकृताः ॥ ८१॥ गहरे भूभृतां गुप्तं तामसास्तापसा इव । कृशाः किमु तपस्यन्ति पुनरभ्युदयाशया ॥ ८२॥ रजनीवियुजां जाने द्विजानामपशापतः। कैरवाक्षी क्षणाद्राज्ञः क्षीणता प्रतिपेदुषी ॥ ८३ ॥ संसिसृक्षुः शशी कान्तां कामगादनुरागवान् । इत्यालोकयितुं शंके तमी तमनुजग्मुषी ॥ ८४ ॥