________________
१४
5
10
15
20
25
30
श्री भानुचन्द्रगणिचरित
अर्थानामिह सर्वेषामनित्यत्वादिभावनैः । इवाम्भः कतकक्षोदैः सुप्रसन्नं मनोऽस्ति नः ॥ ५१ ॥ त्वय्यासमुद्र मेकातपत्रां धात्रीं प्रशासति । धर्मे विघ्नः कुतोऽस्माकं सिंहे गर्जति रङ्कुवत् ॥ ५२ ॥ इत्युक्तियुक्तिमाकर्ण्य महीशक्रश्चमत्कृतः । प्रमोदस्य परां कोटिमध्यगादवदत्पुनः ॥ ५३ ॥ भूषयन्तु भवन्तो मे सभां सौभाग्यशालिनः । प्रत्यहं त्रिदशावासप्रभोः सप्तर्षि भूरिव ॥ ५४ ॥ स्वयमेव समाहूय प्रोचे दौवारिकं नृपः । एते मत्पार्श्वमायान्तस्त्वया वार्या न जातुचित् ॥ ५५ ॥ ध्वनत्स्मरध्वजध्वानपूरिताशेषदिङ्मुखम् । प्राप्तश्री शाहिसंमाना आययुस्ते प्रतिश्रयम् ॥ ५६ ॥ प्रत्यहं ते नृपाभ्यर्णं ततः प्रभृति वव्रजुः । निः प्रत्यूहमजायन्त श्रेयः कृत्यानि चाधिकम् ॥ ५७ ॥ अन्येद्युः प्रश्नयचक्रुस्तानाऽऽहूय सगौरवम् । स्वयं व्युत्पित्सवः शेखाः षड्दर्शनसमुच्चयम् ॥ ५८ ॥ तदुक्तं सविशेषं तत् श्रुत्वा श्रीशेखपुङ्गवः । प्रोचे श्रीमन्मुखादेव शिक्षणीयमिदं मया ॥ ५९ ॥ प्रारेभे तल्लिपीकत्तुं श्रीशेखैः प्रत्यहं ततः । तद्दिनादभवत्तेषां प्रीतिः स्फीतिमती मिथः ॥ ६० ॥ अन्तर्गड्ड स्वकीयस्यावस्थानं वीक्ष्य वाचकैः । स्वप्रस्थान कृते शेखाः प्रार्थिताः प्रीतिपूर्वकम् ॥ ६१ ॥ ततः प्रोचे धराधीशं शेखस्तज्जल्पितं रहः । कुर्वन्तु ते यथाभीष्टमित्युत्तरमदान्नृपः ॥ ६२ ॥ अग्रप्रभृति मत्पार्श्वे साम्प्रतं ये समागताः । रक्षणीयास्त एवेति तमूचे नृपतिः पुनः ॥ ६३ ॥ प्रोचे शेखैस्ततः शान्तिचन्द्रानाहूय सत्वरम् । श्रीमतां चलनाज्ञाभूदू भानुचन्द्रास्तु रक्षिताः ॥ ६४ ॥ ततः शेखैरनुज्ञाताः शान्तिचन्द्राः प्रतस्थिरे । क्रमेण गुर्जरं देशं प्रापुः प्रथितकीर्त्तयः ॥ ६५ ॥ ततः श्रीशेखसाहाय्यात् श्रेयः कृत्यान्यनेकशः । जायन्ते जलसंपर्कात् शश्वत् शस्याङ्कुरा इव ॥ ६६ ॥ नाम्नां सहस्रमन्येद्युर्द्विजातिभ्यो विवस्वतः । भूभुजा मार्गितं भूयो न प्राप्तं तैश्च कुत्रचित् ॥ ६७ ॥