________________
5
प्रथम प्रकाश पीतशात्रवरक्तापि यस्य निस्त्रिंशसैरभिः। .. ददौ शुभ्रं यशोदुग्धं चित्राचित्रमिदं महत् ॥४२॥ शीतोऽप्यत्यन्तशुभ्रोऽपि चित्रं यस्य यशःशशी। वैरिणां हृदये दाहं मुखे च श्यामतां व्यधात् ॥ ४३ ॥ शोषिता यत्प्रतापेन द्विषतां सौर्यवल्लयः। पत्रैरिवासिभिभ्रष्टै रणारण्यमपूरयत् ॥४४॥ नित्यं यदीयधर्मस्य वर्द्धमानस्य सर्वतः। चैत्यश्रियः स्म तन्वन्ति न्युञ्छनानि ध्वजाश्चलैः॥ ४५ ॥ उदेष्यतः प्रतापाग्ने—मदण्ड इवोन्मुखः। यदसियुधि शत्रुस्त्रीनेत्रैदृष्टो जलाविलैः ॥ ४६॥ कर्पूरपूरवद् यस्य यशोरोदःसमुद्रके। जज्ञेऽरिदुर्यशःकृष्णागारसङ्गाचिरं स्थिरम् ॥४७॥ यदीयप्रचलत्सैन्यधूलिधूसरिताननाः। अदृश्यतां दिशः प्रापुस्तत्क्षणाद्वैरिभिः सह ॥४८॥ यद्यात्राहतनिःखाननिःस्वनैर्बधिरीकृतः। नागलोकस्ततो लोकैकर्ण इति गीयते ॥४९॥ यत्सैन्यभेरीभाङ्कारैर्ब्रह्माण्डस्फोटशङ्कया। अवष्टम्भकृते दिक्षु किं धात्रा विधृता गजाः ॥५०॥ यत्सैन्यमोच्छललीधोरणीपातशङ्कितः। गतागतान्यसौ चक्रे पयोधिः प्रत्यहं किमु ॥५१॥ मा कार्षीदर्थिसान्मेरुमसाविति विरश्चिनः। . पुष्पदन्ताविमौ चक्रे तत्र प्राहरिको किमु ॥५२॥ वर्षन्तं स्वर्णधाराभिर्वीक्ष्य धाराधरो हि यम् । श्यामास्यः समभूत् सौवदानशौण्डत्वहानितः ॥५३॥ षड्दर्शनपशुग्राम गोपाल इव पालयन् । सरसायां रसायां स भूपालः सुतरां बभौ ॥५४ ॥ यत्सैन्यप्रोच्छलद्वाहखुरक्षुण्णधरारजः।। तथा तयानशे व्योम यथा रात्रिरभूद्दिवा ॥ ५५॥ न सा कला न तद् ज्ञानं न तद् धैर्य न तद्बलम् । शाहिना युवराजेन यत्र नैवोद्यमः कृतः॥५६॥ यत्प्रतापाग्नितापातः कृष्णः शेते किमम्बुधौ। तुहिनाद्रौ स्थितः शम्भुः खयम्भूः पङ्कजेऽगमत् ॥ ५७॥ अद्य यावदभूदेककर्णा सागरमेखला। अनेन दानशौण्डेन द्विकर्णा समजायत ॥ ५८ ॥
25
-