________________
श्रीभानुचन्द्रगणिचरित स्पर्शाच्चन्द्रद्युतेर्यत्र काशन्ते चान्द्रसद्हाः। क्षरद्वारिकणैः स्वस्थैः पतन्मुक्ताफलैरिव ॥ २६ ॥ सुकृतामृतसिक्तानां यत्र भान्ति ध्वजाश्चलाः। तीर्थेशवेश्मनां पुण्यद्रुमाणां पल्लवा इव ॥ २७ ॥ कृतपापविषग्रासाः प्रासादाः काममहताम् । यस्यां पताकाजिह्वार्लिहन्तीव सुधाकरम् ॥ २८ ॥ यस्यामनुपमानोऽपि सोपमानोऽभवजनः । मणिमन्दिरभूमीषु खैरेव प्रतिविम्वितैः ॥ २९॥ निर्निमेषा मिथोरूपदर्शनाद्दम्पतिव्रजाः। धर्मक्षेत्रे बभुर्यत्र स्वर्गपौरा इवागताः ॥ ३०॥ : रत्नकुम्भान्विताः प्रोचैर्यत्र चैत्यैः सतां पुरः। मोहध्वान्तद्रुहो दीपा इव मोक्षाध्वदर्शने ॥ ३१॥ यद्वर्णिनीमुखेभ्योऽपि पुरस्तादिन्दुमण्डलम् । अलक्ष्यत वियज्जीर्णभित्तौ कृमिपुटोपमम् ॥ ३२ ।। वियद्भमणखिन्नानां गभस्तिरथवाजिनाम् । यत्सौधवैजयन्त्योऽपि भृशं व्यजनतां ययुः॥ ३३ ॥ विभावर्यामपि जना विभावर्याङ्गभूषणैः। ध्वस्तध्वान्तभरा यत्र यान्ति प्रान्तरवर्त्मसु ॥ ३४ ॥ यत्रेश्वराः प्रतिगृहं गौर्योऽपि च गुणाधिकाः। तत् पुरं पौरसङ्कीर्णं खर्गादप्यतिरिच्यते ॥ ३५ ॥ अनेकधनदोपेतं तत् पुरं वीक्ष्य तज्जनः। अलकां चैकधनदां जातुचिन्न समीहते ॥ ३६॥ कुण्डलीकृतकायेन शेषेणेव समन्ततः। निधानमिव तद् रेजे शालेन परिवेष्टितम् ॥ ३७॥ परिखाजलसंक्रान्तैव्रजन्नरनराधिपः ।
नागलोकः समायातो वीक्षितुं तत् पुरं किमु ॥ ३८ ॥ . ६३. शाहिश्रीमदकब्बरप्रतापवर्णनम् ।
तथा तत् पालयामास शाहिः श्रीमदकब्बरः। नीत्या यथैव नास्मार्षीत् कौशलेयं जनोऽखिलः ॥ ३९ ॥ यत्प्रतापाग्निना दग्धाः शलभा इव दस्यवः। केवलं ग्रामवृद्धेषु । तद्वातैव व्यवस्थिता ॥ ४०॥ शत्रुस्त्रीनेत्रबाष्पूरैः साञ्जनैः सञ्चितोऽपि हि । यद्यशश्चन्द्रमाः श्वेतोऽभवचित्रमिदं महत् ॥४१॥