________________
10
श्रीभानुचन्द्रगणिचरित यल्लोहोत्तमतामयाशकलमप्यासादयत्याश्रुतः '
किश्चित् सिद्धरसप्रसङ्गजनितं माहात्म्यमुम्भते ॥६॥ विद्वद्विस्मयकारिचारुचरितं वक्तुं न शक्यं गुरोः ।
श्रीमद्वाचकवृन्दवन्दितपदः श्रीभानुचन्द्रस्य यत् । वक्तुं वाञ्छति मादृशोऽपि जडधीस्त्यक्तत्रपस्तोयधिं .
तद्विस्तीर्णतरं तरीतुमुडुपेनोत्कण्ठते कुण्ठधीः ॥७॥ प्रागल्भ्यं भुजगेश्वरोऽपि न भजेजिह्वासहस्रोऽपि चेत्
यस्योद्यद्गुणवर्णनव्यतिकरेऽन्येषां पुनः का कथा । मादृक्षस्य निरक्षरस्य विमतेस्तत्रावकाशः कुतो ___ यद्वाऽमी वयसोऽपि किं निजगिरा नो संगिरन्तेतराम् ॥ ८॥ यः सर्वार्थसहस्सहस्रमहसः शुद्धा[:] सहस्राभिधाः
साहिश्रीमदकब्बरक्षितिपतेरध्यापयामासिवान् । यस्मै सोऽपि समस्तजन्तुहननव्याषेध-शशुंजय
क्षोणीभृत्करमोचनप्रभृतिकृत् प्रादात् स्फुरन्मानकम् ॥९॥ खेनावृत्ति-वसंतराजविवृती वृत्तिश्च कादम्बरी,
श्रीसारखतवृत्तयश्च विवृतिः काव्यप्रकाशस्य च । नामश्रेणि-विवेकपूर्वकविलासग्रन्थवृत्ती तथे
त्यादीन् यो रचयांचकार रुचिरग्रन्थांश्च निर्ग्रन्थराट् ॥१०॥ सर्वे निर्विषयीकृता यतिजनाः श्रीमजिहांगीरभू
भर्ना गूर्जरमण्डले खसविधे सत्कृत्य यः स्थापितः। श्रीमद्वाचकसिद्धिचन्द्रगणियुग युक्तं युगान्ते मरुत् __ कैलासान्वितमेरुतोऽपरमगं कं कं न चाकम्पयत् ॥११॥ स श्रीवाचकभानुचन्द्रमुनिपः प्राप्त प्रतिष्ठोऽभवत्,
साहिश्रीमदकब्बरं नरवरं सम्बोध्य सौभाग्यभूः । तस्माचार्हतशासनस्य महिमाऽत्यर्थं यथा पप्रथे ___ तद्वृत्तान्तलवः स वर्णनिकरैरुत्कर्णमाकर्ण्यताम् ॥ १२॥ न चाधिकं स्मयावेशाद्, न च न्यूनं तदत्ययात् । यथार्थमेव यज्जातं तत्तथैव निगद्यते ॥ १३ ॥
15
20
25