________________
४०
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम टुम्बकमदात् । रुष्टस्तापसो विष्णुरिति जल्पन् नानार्थं पश्चाद्वलितो वेश्याया दर्शने नानमिति कृत्वा । राज्ञा ज्ञातम् । साऽऽकारिता पृष्टं च । तत्तापसं पार्वे कृत्वा प्रोचे
__आंखिइ मीचि म मीचि मन, नयणि निहाली जोइ ।
अणु अप्पिहिं जोइंइ, अव नर बीजउ कोइ ॥ २१९
तया राज्ञे ज्ञापितं तद्दम्भ-स्वरूपम् । राज्ञा. तत्स्वरूपज्ञानाय स्वगृहे पारणाय निमन्त्रितों! बहु-भक्ष्य-भोज्यै भोजयति । राजा ज्ञया राज्यग्रे स्थिता तालवृन्तेन वात-प्रेक्षपं करोति । तावत् तद्रूप मोहितः कामयन तच्छूकेन दृष्टः ।
यतः -
नामापि स्त्रीति संदि विकरोत्येव मानवम् ।
किं पुनदर्शनं तस्या, विलासोल्लासित ध्रुवः ॥ २२०
उत्थितो राजी प्रार्थयति । चलनादि करोति । ततो राज्ञी रुष्टा ब्रते-रे तापस सद्यो याहि। मुखं मा दर्शय । तथाऽपि काम-मदोन्मत्तो न विरमति ।
यतः - तावन् महत्त्व-पाण्डित्यं, कुलीनत्वं विवेकिता । यावज्ज्वलति नाङ्गेषु, हन्त पञ्चेषु-पावकः ॥ २२१ सिक्तोऽप्यम्बुधस्वातैः, प्लावितोऽप्यम्बु-राशिभिः । न शान्ति यात्यही चित्रं, काम-वहिनः प्रयत्न तः ॥ २२२ तावद्राज्ञी बुम्बाखं चकार । तज्ज्ञात्वा राजा तत्रागात् । अपराध-सहस्त्रेऽपि, योषिद्-द्विज-तप-पस्विषु । न वधो नाङ्ग-विच्छेदो देश-निर्वासनं वरम् ॥ २२३
इति जाननपि राजा रुष्टो विडम्ब्य तं जघान । स मृत्वा राक्षसो बभूव । पूर्व-भववैरं स्मरन् राजानं तं सावविडम्बनया हन्ति । रे रण्डे मम मारणाय त्वं पत्करोषि(इति) । राज्ञीमपि हन्ति । रोषेण नगरं शून्यं चक्रे सः । यो वासयति तस्याऽप्युद्वेगं करोति । तेन हेतुना शून्यमिदं पुरम् । अस्य शून्यत्वे स्त्र्येव हेतुः ।
यतः -
अकीर्तेः कारणं योषिद्, योषिद् वैरस्य, कारणम् ।
संसार-कारणं योषिद, योषितं वर्जयेत् ततः ॥ २२४ इत्युक्त्वा लक्ष्मीस्तिरोऽभूत् । तच्छुत्वा कुमारश्चिन्तयति