________________
हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम्
३९ प्रभृतयः । प्रेत-वने वट-कोटरे स्थिता रात्रौ । तत्र भूता बहवो वसन्ति । विनोदं कुर्वन्ति । एकेनोक्तम्-कल्ये पंच-शत-पण्डितानां निष्कासनं विडम्बनं भविष्यति । लघुः पृच्छति-केन हेतुना । वृद्धो वक्ति-शुकोक्तं श्लोकं चतुर-क्षरां हृदयालिकां च न बुध्यन्ते ग्रासं तु भक्षयन्ति। लघुः पृच्छति तस्य कोऽर्थोः । वृद्धः प्राह- न कथयामि ।
बालनारी नरेन्द्राणां, ग्रहो ग्रथिलसन्निभः । २१७ कङ्क सी-कृते बलभी-भंङ्गः । सीतया हेममृगाग्रहे रावणसङ्गरोः ॥
राज्ञो ग्रहे दुर्योधन मारणम् । ततो वृद्धो वक्ति-शृणु । 'पद्मं तुला रदौ रक्तौ पद्मपुरं' तत्र तुला वणिकपुत्री तिलकमञ्जरी नाम नृपविक्रमेऽनुरक्ता विज्ञपयति तव रदावुर्वाधोरूपौ रक्तौ ममोष्ठौ दशतः पाणिग्रहणानन्तरं चुम्बत इति भावः । मुखेन दत्ताङ्गलीक्षेपो दीनत्वं ज्ञापयति मां परिणयेति । तं श्लोकार्थं वररुचिः शुश्राव । चतुरक्षराणां चार्थो यथा -
अनेन तव पुत्रस्य प्रसुप्तस्य वनान्तरे ।
शिखामाक्रम्य पादेन, खङ्गेन कृन्तितं शिरः ॥ २१८
इति श्लोकं च श्रुत्वा वररुचिहर्षोत्कर्षादुल्लसद्गात्रो वर-कोटरान्निर्गत्य गृहे गतः । तावता पण्डित-धरणाय पुरुषा भ्रमन्ति । केऽपि धृताः । ततो वररुचिः प्रोचे-किं ध्रियन्ते पण्डिताः ।
- राज्ञः प्रश्नोत्तरमहं दास्ये । तूर्यं ते नष्टाः शृगालाः । कियद् यास्यन्ति । राज्ञा तत्र पुरे गत्वा व्यवहारि-सुता तिलक मञ्जरी विवाहिता । श्रेष्ठिना पुत्र-सत्कं धनं गृहीत्वा स निगृहीतः । ततो लघु-भूतेन वृद्ध भूत-पार्वे पृष्टम्-तात पण्डित-निष्कासनं तवोक्तं नाभूत् तत् किं कारणं-अवधि-ज्ञान तो वररुचि-पण्डितस्य वट-कोटरावस्थानं ज्ञातमर्थसङ्गतिर्मदुक्ता तेन श्रुता । तेन पण्डितानां मानं चाऽजनि । तत्स्वरूपं लघोरग्रे प्रोक्तम् ।
तत उक्तम्-दिवा निरीक्ष्य वक्तव्यमिति । सदयोऽवगेव-एवं सत्यपि ममोत्सुकस्य कथय । ततः सा वक्ति-तदा शृणु-अहं लक्ष्मीनन्दराज्ञो निर्नाथत्वेन रोदिमि । मम त्वं नाथो भव।
. सदयो वदति -भविष्यामि । लक्ष्मीमागच्छती कः पादौनिलोठ-यति । पुनस्तां पृच्छति-इदं पुरं शून्यं केन हेतुना । सा वक्ति-भोःकुमार शृणु । यदि कौतुकम् । अत्र वीरपुरे नगरे भीमसेनो नृपो लक्ष्मी राज्ञी रूप-सौभाग्यादि-निर्जित-रम्भा । इतश्च कोऽपि तपस्व्यत्र समागात् लोकरञ्जनाय । स्त्री-मुखं नाऽवलोकते । मास-क्षपण-पारणे पारणाय लोका निमन्त्रयन्ति। कम्बाधरैर्न रैराश्रयात् स्त्रियोऽपसार्यन्ते । एवं स्त्री-विडम्बनां श्रुत्वा काऽपि वेश्या-अहो ! कपट -पाटवं मर्ख-लोक-रञ्जन-विषये कियान दम्भ इति मन्यमाना तद्वोधनाय भक्तानां गृहे पारणाय गच्छन् दृष्टः । तया तावता वेत्रिभिर्वार्यमाणाऽपि नापसरत् सा । पार्श्व आगत्य तापसमस्तके