________________
सरलार्थः-यत्र प्रत्येकपादे नगण जगण जगणोत्तरं लघुगुरुश्च वर्णो भवति तस्य सुमुखी नाम विज्ञेयम् । उदाहरणम्कनकरुचिर्घनपीनकुचा
मनसिजविभ्रमकेलिगृहम् । चलनयना नव-कुन्ददती,
न हरति कस्य मनः सुमुखी ॥ छ. ॥
अथवातरणिसुता - तटकुञ्जगृहे,
वदनविधुस्थित - दीधितिभिः । तिमिरमुदस्य मुखं सुमुखी,
हरिमवलोक्य जहास चिरम् ॥ (४७) "दोधकवृत्तमिदं भ भ भाद् गौ"। भ. भ. भ. गु. गु. । .. 51. SII. S. 5. लक्षणपदमिदम् ।
अथवा
"दोधकमिच्छति भत्रितयाद् गौ" । लक्षणपदमेतत् ।
सरलार्थः-यत्र क्रमशो भगणत्रयानन्तरं गुरुवर्णद्वयं स्यात् तद् दोधकनामकं छन्दो भवति ।
छन्दोरत्नमाला-७६