________________
उदाहरणम्यस्य न काऽपि कला न मति
र्न व्यवसाय लवोऽपि तथा। सोऽपि कथञ्चन जीवति चेद् ,
दैवमिदं खलु चित्रगतिः ।। (३७) "जौ रगौ मयूरसारिणी स्यात्"। र. ज. र. गु.। sis. IsI. sis. s.। लक्षणमेतत् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशः रगण जगण रगणोत्तरं गुरुरेकस्तिष्ठति तत् मयूरसारिणीनामकं छन्दः कथ्यते । पादान्ते यतिज्ञेया । उदाहरणम्या घनान्धकारडम्बरेषु ,
प्रतिमानसा विसर्पतीह । क्षोभयन्त्यपि क्षणाद् भुजङ्गान् ,
संत्यजेन्मयूरसारिणां ताम् ।। छ. ।। (३८) "म्मौ सगयुक्तौ रुक्मवतीयम्"। भ. म. स. गु.। II. sss. ।।s. s.। लक्षणमिदम् ।
सरलार्थः-यत्र प्रतिचरणं क्रमशः भगण मगण सगणोत्तरभेदो गुरुर्भवति सा रुक्मवती कथ्यते ।
छन्दोरत्नमाला-६६