________________
प्र...श...स्तिः
प्रख्याते भारते देशे, राजस्थाने हि प्रान्तके । मरुधरे प्रदेशे वै, सिरोहीमण्डलान्तके ॥ १ ॥
जोराभिधाख्यभूभागे, जावाले नगरे वरे । जैनोपाश्रय-सुस्थाने, वर्षा-स्थिति प्रकुर्वता ।। २ ॥
श्रीवृषभजिनेन्द्रस्याऽनुभावात् सद्गुरोरपि । श्रीछन्दोरत्नमालाख्यो, ग्रन्थोऽयं रचितस्तदा ।। ३ ।।
वर्षे नेत्रानलाकाशा-क्षिप्रमिते हि आश्विनीपूर्णिमायां सुशीलाऽख्य-सूरिणा पूर्णतामितः ।। ४ ।।
यावद् विश्वे स्थिताः मेरु-पुष्पदन्तादयोऽपि वै । तावद् ग्रन्थोऽप्ययं भूयात्, वाच्यमानः शुभं सताम् ।। ५ ।।